Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 175
________________ १५८ सिद्धप्रामृत : सटीकः लहु गुरुं अंतर समओ, छमास १२ । अडसमय अव्वहिआ १३ ॥८॥ जहनिअर इक्क अडसय १४, अणेग एगा य थोव संखगुणा १५ । उत्कर्षद्वारे कालशब्दस्य प्रत्येकं योगात् । अनन्तं कालं असंख्यं संख्यं च कालं च्युतसम्यक्त्वाः सिध्यन्ति अच्युतसम्यक्त्वाश्च । अयमर्थः-च्युतसम्यक्त्वाः केचिदनन्तंकालं अर्धपुद्गलपरावर्तलक्षणं संसारे भ्रान्त्वोत्कर्षतो लब्धसम्यक्त्वादिरत्नत्रयाः सिध्यन्ति । अपरेऽनुत्कर्षतोऽसंख्यातम् । अन्ये तु संख्येयम् । केचनाच्युतसम्यक्त्वा अपि सिध्यन्तीति ११ । अन्तरद्वारे जघन्यत एकसमयः, उत्कर्षतः षण्मासाः १२ । अनुसमयद्वारे निरन्तरद्वारे जघन्यतो द्वौ समयौ निरन्तरं सिध्यन्ति, उत्कर्षतोऽष्टौ समयाः । अव्यवधानं निरन्तरतेत्यर्थः १३ ॥ ८ ॥ गणनाद्वारे जघन्यत एकः; इतरत उत्कर्षतोऽष्टाधिकं शतं सिध्यति । श्रीनाभेयस्य निर्वाणसमयेऽष्टोत्तरशतमेकसमयेन सिद्धम् । आह च संघदासगणिर्वसुदेवहिण्डौ-"उसभो अभीइणा नक्खत्तेणं एगूणपुत्तसएहिं अट्ठहिं नत्तूएहिं सह एगसमएणं निष्पुण । सेसाणवि अणगाराणं दससहस्साणि अट्ठसयऊणगाणि तंमि चेव नक्खत्ते बहुसु समयंतरेसुत्ति" १४ । अल्पबहुत्वद्वारे युगपद्दिवादिकाः सिद्धाः स्तोकाः, तेभ्य एककाः सिद्धाः संख्येयगुणा विवक्षितसमये एकैकसिद्धानां बाहुल्यादिति भावः १५ । गतं सत्पदप्ररूपणाद्वारम् १ । संप्रति द्रव्यमानं क्षेत्रादिषु पञ्चदशसु द्वारेष्वभिधीयते चउ उड्ड नंदणजले, वीस पहुत्तं अहोलोए ॥ ९ ॥ 1. 'संप्रति द्रव्यमानमाह' इत्यपि ॥

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210