________________
परिशिष्ट - १
चारित्रिणाम्, सामायिकच्छेदोपस्थापनीयसूक्ष्मसंपराययथाख्यातचारित्रिणां च प्रत्येकमष्टशतम् ॥ १४ ॥ परिहारविशुद्धिपदयुते भङ्गे दश दश । इदमुक्तं भवति - सामायिकपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातचारित्रिणाम्, सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातचारित्रिणां दश दश ७ । बुद्धद्वारे बुद्धीबोधिताः स्त्रियोविंशतिरेकसमयेन सिध्यन्ति । तथा बुद्धीबोधितजीवानां पुंस्त्रीषण्ढविशेषितानां विंशतिपृथक्त्वम् । अयं च सिद्धप्राभृतोक्तो विशेषः । बुद्धबोधितानां पुरुषाणामष्टशतम् । स्त्रीणां विंशतिः । नपुंसकानां दशकम् । प्रत्येकबुद्धानां दशकम् ८ । ज्ञानद्वारे पूर्वभावमपेक्ष्य मतिश्रुतज्ञानिनश्चत्वारः । मतिश्रुतामन: पर्यायज्ञानिनो दश । शेषभङ्गद्विके मतिश्रुतावधिज्ञानिनो मतिश्रुतावधिमनःपर्यायज्ञानिन इत्येवंलक्षणे 'ओहो' इति अष्टशतं सिध्यतीति ९ ॥ १५ ॥
मझे गुरु लहुवगाहण, अडर्सय दुर्ग चडेर अट्ठ जवमज्झे १० । चुअणंतकालसम्मा, अडसय चउ अचुअ दस सेस ११ । १२।१६ ॥ अवगाहनाद्वारे मध्यावगाहनायामष्टशतम् । उत्कृष्टायां द्वौ । लघ्व्यां चत्वारो युगपत्सिद्यन्तीति । अष्टौ यवमध्ये । यवमध्यं नाम उत्कृष्टावगाहनायाः पञ्चविंशत्यधिकपञ्चशतधनूरूपाया अर्धं द्विषष्टयुत्तरद्विशतधनूंषि । एवमग्रेऽपि समार्धस्य यवमध्यमिति संज्ञा ज्ञेया १० । उत्कृष्टद्वारे अनन्तकालच्युतसम्यक्त्वा अष्टशतम् । अच्युतसम्यक्त्वा - श्चत्वारः । शेषा असंख्यातकालच्युतसम्यक्त्वाः, संख्यातकालच्युतसम्यक्त्वाश्च प्रत्येकं दश दश सिध्यन्ति ११ । अन्तरद्वारेऽल्पविषयत्वात्सूत्रे - ऽनुक्तमपि दर्श्यते । अन्तरद्वारे एको वा सान्तरः सिध्यति । बहवो वा तत्र बहवो यावदष्टशतम् १२ ॥ १६ ॥
अॅड. १०८ दुरहिअ १०२ सय छेनुई, चुलसी दुर्गेसरि सट्ठि अडयाला ।
१६१