________________
१६२
सिद्धप्रामृत : सटीकः वत्तीस इक्क ति चउ, पणे छगे
सगं अंड निरंतरिया १३ ॥ १७ ॥ अनुसमयद्वारे अष्टाधिकं शतम्, व्यधिकं शतं चेत्यर्थः । अष्टोत्तर शतादयोऽष्टौ यथासंख्यं एकसमयादीन् (दि) यावदष्टौ समयान्निरन्तरं सिध्यन्तीति संबन्धः । व्युत्तरशतं यावदष्टशतं सिध्येत् एकसमयमेव यावल्लभ्यते, ततः परतो नियमादन्तरं भवति । तथा सप्तनवत्यादयो व्यधिकशतपर्यन्ता द्वौ समयौ यावनिरन्तरं सिध्यन्ति, ततः परमवश्यमन्तरम् । एवं पञ्चाशीत्यादयः षण्णवतिपर्यन्तास्त्रीन् समयान् यावत् । त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ताश्चतुरः समयान् यावत् । एकषष्ट्यादयो द्वासप्ततिपर्यन्ताः पञ्चसमयान् यावत् । एकोनपञ्चाशदादयः षष्टिपर्यन्ताः षट्समयान् यावत् । त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ताः सप्त समयान् यावत् । तथा एकादयो द्वात्रिंशत्पर्यन्ता अष्टौ समयान् यावनिरन्तरं सिध्यन्तः प्राप्यन्ते, ततः परमवश्यमन्तरम् । अत्रायमाशयः-आद्यसमये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत् सिध्यन्तः प्राप्यन्ते । द्वितीयसमयेऽपि जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत् । एवं तृतीयसमये यावदष्टमसमयेऽपि । ततः परमवश्यमन्तरमेव । एवं सर्वत्रापि योज्यम् १३ ॥ १७ ॥ गणनाद्वारमल्पबहुत्वद्वारं च प्रागिव द्रष्टव्यम् । तदेवमुक्तं द्रव्यप्रमाणं मौलं द्वितीयं द्वारम् । सांप्रतं क्षेत्रद्वारं स्पर्शनाद्वारं चैक गाथयाह
लोअग्गठिआ सिद्धा, इह बुंदि चइय पडिहय अलोए३' । फुसइ अणंते सिद्धे, सव्वपएसेहि सो सिद्धों ४।१८
1. 'मौलं क्षेत्रद्वारम् । 2. मौलं स्पर्शनाद्वारम् । इदं द्वारद्वयं पञ्चदशसु द्वारेषु स्वबुद्धद्या भावनीयं सूत्रे सुगमत्वानोक्तम् ॥