________________
सिद्धप्राभृत: सटीकः
नपुंसकवेदाः प्रत्येकं चतुरश्चतुरः समयान् । पुरुषेभ्य उद्धृत्य पुरुषा एव सन्तः सिध्यन्तोऽष्टौ समयान् यावत् । शेषेषु चाऽष्टभङ्गेषु चतुरश्चतुरः समयान् ४ । तीर्थद्वारे तीर्थकरतीर्थे तीर्थकरीतीर्थे चातीर्थकरसिद्धा उत्कर्षतोऽष्टौ समयान् । तीर्थकरस्तीर्थकर्यश्च द्वौ समयौ ५ । लिङ्गद्वारे स्वलिङ्गेऽष्टौ समयान्, अन्यलिङ्गे चतुर: समयान्, गृहिलिङ्गे द्वौ समयौ ६ । चारित्रद्वारे अनुभूतपरिहारविशुद्धिकचरित्राश्चतुरः समयान् । शेषा अष्टावष्टौ समयान् ७ । बुद्धद्वारे स्वयंबुद्धा द्वौ समयौ, बुद्धबोधिता अष्टौ समयान्, प्रत्येकबुद्धा बुद्धीबोधिताः स्त्रियो नरादयो वा सामान्यतः प्रत्येकं चतुरः समयान् ८ । ज्ञानद्वारे मतिश्रुतज्ञानिनो द्वौ समयौ, मतिश्रुतमनःपर्यायज्ञानिनश्चतुरः समयान्, मतिश्रुतावधिज्ञानिनो मतिश्रुतावधिमनःपर्यायज्ञानिनो वाष्टावष्टौ समयान् ९ । अवगाहनाद्वारे उत्कृष्टायां जघन्यायां चावगाहनायां द्वौ द्वौ समयौ, यवमध्ये चतुरः समयान्, मध्यमावगाहनायां पुनरष्टौ समयान् १० । उत्कृष्टद्वारे अपतितसम्यक्त्वा द्वौ समयौ संख्येयकालप्रतिपतिता असंख्येयकालप्रतिपतिताश्च चतुरश्चतुर: समयान्, अनन्तकालप्रतिपतिता अष्टौ अष्टौ समयान् ११ । इत्यन्तरादीनि चत्वारि द्वाराणि नेहावतरन्ति ॥ १९ ॥ गतं मौलं पञ्चमं काल इति द्वारम् । सांप्रतं षष्ठमन्तरद्वारमाह
१६४
जंबुद्दीवे धायइ, ओह विभागे य तिसु विदेहेसु । वासपहुत्तं अंतर, पुक्खरदुविदेह वासहियं १ ॥ २० ॥
क्षेत्रविभागे 'ओह' इति सामान्येन जम्बूद्वीपे धातकीखण्डे च विभागेन विशेषचिन्तायां जम्बूद्वीपसत्के एकस्मिन् विदेहे द्वयोश्च धातकीखण्डसत्कयोरेवं त्रिषु विदेहेषु उत्कृष्टं वर्षपृथक्त्वमन्तरं सिद्धिगमनलक्षणम् । तथा पुष्करवरद्वीपार्द्धे ओघेन विभागेन च तद्विदेहयोश्च वर्षमधिकमन्तरमिति १ ॥ २० ॥