Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir
View full book text
________________
१५२
सिद्धप्रामृत : सटीकः
परिशिष्ट-१ ॥ श्री मद्देवेन्द्रसूरिकृता सिद्धपञ्चाशिका ॥
॥ प्रस्तावना ॥ इदं सिद्धपञ्चाशिकाभिधानं प्रकरणरत्नं प्रकरणकारैः ऐदंयुगीनमन्दमतीनां हितहेतवे सिद्धप्राभृतात्समुद्धृत्य गाथानुबन्धेन निबद्धम्, तच्चाधगाथागतस्य-"सिरिसिद्धपाहुडाओ" इति पदस्यावलोकनेन, अस्यावसानगाथागतस्य-"लिहिअं" अति पदस्य–“लिखितमक्षरविन्यासीकृतं सिद्धप्राभृतादिति शेषः" इति व्याख्यालवावलोकनेन च प्रकटमेव । “देविदसूरीहिं" इत्यनेन मूलपाठेन, संशोधनकाले एकीकृतानां पुस्तकादर्शानां मध्यादेकस्यैव पुस्तकस्य"करालकलिकालपातालतलावमज्जद्विशुद्धधर्मधुरोद्धरणधुरीणश्रीमज्जगचन्द्रसूरिचरणसरसीरूहचञ्चरीकैरिति" इत्यवचूरिगतपाठेन चास्य प्रणेतारः तपागच्छ भट्टारकपुरन्दरश्रीमद्देवेन्द्रसूरय एवेति सुप्रतितम् । एतेषां सत्तासमयोऽपीह निर्विरोधं विक्रमार्कीयत्रयोदशशताब्दयां सुप्रसिद्ध एव । अस्यावचूरिकारकालमानं तु निर्णेतुं न शक्यते, क्वाप्येतस्य नामाद्यनुपलम्भात् ।
अस्यां सिद्धपञ्चाशिकायां . सत्पदप्ररूपणादिभिर्नवभिद्वारैः पञ्चदशसु क्षेत्रादिद्वारेषु अनन्तरसिद्धानां परम्परसिद्धानां च स्वरूपं विगतविकारैः प्रकरणकारैः संक्षेपेण प्रतिपादितमस्ति । तत्तु स्वयमेवावभोत्स्यते पण्डितप्रकाण्डैरिति नात्रास्माकं कथनावश्यकतेति ।
सवृत्तिकस्यास्य प्रकरणस्य संशोधनसमये पुस्तकमेकं पुज्यपादप्रवर्तक श्रीमत्कान्तिविजयसत्कम्, द्वे च प्रवर्तकशिष्यमुनिश्रीभक्तिविजयसत्के, द्वे तु पत्तनसङ्घसत्कचित्कोशीये, एकं पुनः पत्तनस्थसागरगच्छोपाश्रयसत्कचित्कोशीयम्, एतानि षट् पुस्तकानि संप्राप्तानि । ततः शोधनकर्मणि साहाय्यमुपलभमानः पुस्तकप्रेषणेनानुग्रहं वितन्वताममीषां मन्येऽहं महतीमुपकृतिम् ।
एतत्पुस्तकषट्काधारेण संशोधितेऽप्यत्र निबन्धे यत्र क्वचनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं प्रवचनविचारजैरिति प्रार्थयते
प्रकल्पिताञ्चलिः प्रवर्तकपादपाथोजपरागः चतुरविजयो मुनिः ॥

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210