SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५२ सिद्धप्रामृत : सटीकः परिशिष्ट-१ ॥ श्री मद्देवेन्द्रसूरिकृता सिद्धपञ्चाशिका ॥ ॥ प्रस्तावना ॥ इदं सिद्धपञ्चाशिकाभिधानं प्रकरणरत्नं प्रकरणकारैः ऐदंयुगीनमन्दमतीनां हितहेतवे सिद्धप्राभृतात्समुद्धृत्य गाथानुबन्धेन निबद्धम्, तच्चाधगाथागतस्य-"सिरिसिद्धपाहुडाओ" इति पदस्यावलोकनेन, अस्यावसानगाथागतस्य-"लिहिअं" अति पदस्य–“लिखितमक्षरविन्यासीकृतं सिद्धप्राभृतादिति शेषः" इति व्याख्यालवावलोकनेन च प्रकटमेव । “देविदसूरीहिं" इत्यनेन मूलपाठेन, संशोधनकाले एकीकृतानां पुस्तकादर्शानां मध्यादेकस्यैव पुस्तकस्य"करालकलिकालपातालतलावमज्जद्विशुद्धधर्मधुरोद्धरणधुरीणश्रीमज्जगचन्द्रसूरिचरणसरसीरूहचञ्चरीकैरिति" इत्यवचूरिगतपाठेन चास्य प्रणेतारः तपागच्छ भट्टारकपुरन्दरश्रीमद्देवेन्द्रसूरय एवेति सुप्रतितम् । एतेषां सत्तासमयोऽपीह निर्विरोधं विक्रमार्कीयत्रयोदशशताब्दयां सुप्रसिद्ध एव । अस्यावचूरिकारकालमानं तु निर्णेतुं न शक्यते, क्वाप्येतस्य नामाद्यनुपलम्भात् । अस्यां सिद्धपञ्चाशिकायां . सत्पदप्ररूपणादिभिर्नवभिद्वारैः पञ्चदशसु क्षेत्रादिद्वारेषु अनन्तरसिद्धानां परम्परसिद्धानां च स्वरूपं विगतविकारैः प्रकरणकारैः संक्षेपेण प्रतिपादितमस्ति । तत्तु स्वयमेवावभोत्स्यते पण्डितप्रकाण्डैरिति नात्रास्माकं कथनावश्यकतेति । सवृत्तिकस्यास्य प्रकरणस्य संशोधनसमये पुस्तकमेकं पुज्यपादप्रवर्तक श्रीमत्कान्तिविजयसत्कम्, द्वे च प्रवर्तकशिष्यमुनिश्रीभक्तिविजयसत्के, द्वे तु पत्तनसङ्घसत्कचित्कोशीये, एकं पुनः पत्तनस्थसागरगच्छोपाश्रयसत्कचित्कोशीयम्, एतानि षट् पुस्तकानि संप्राप्तानि । ततः शोधनकर्मणि साहाय्यमुपलभमानः पुस्तकप्रेषणेनानुग्रहं वितन्वताममीषां मन्येऽहं महतीमुपकृतिम् । एतत्पुस्तकषट्काधारेण संशोधितेऽप्यत्र निबन्धे यत्र क्वचनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं प्रवचनविचारजैरिति प्रार्थयते प्रकल्पिताञ्चलिः प्रवर्तकपादपाथोजपरागः चतुरविजयो मुनिः ॥
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy