________________
१५४
सिद्धप्रामृत : सटीकः एभिः पूर्वोक्तैरष्टभिः सत्पदप्ररूपणादिभिद्वारैरनन्तराः सिद्धा विचारणीयाः । परम्पराः सिद्धास्तु 'तेहिं' तैः सत्पदप्ररूपणादिभिद्वारैः संनिकर्षयुक्तैर्नवभिाररित्यर्थः । न विद्यते समयेनाप्यन्तरं व्यवधानं येषां तेऽनन्तराः, सिद्धत्वप्रथमसमयवर्त्तिन इत्यर्थः । प्राकृतत्वाज्जसो लोपः । विवक्षिते प्रथमे समये यः सिद्धस्तस्य यो द्वितीयसमये सिद्धः स परः, तस्यापि यस्तृतीयसमये सिद्धः स परम्परः । एवमन्येऽपि वाच्याः । परम्परे च ते सिद्धाश्च परम्परसिद्धाः । विवक्षितसिद्धत्वप्रथमसमयात्प्राग् द्वितीयादिषु समयेष्वनन्तामतीताद्धां यावद्वर्त्तमाना इत्यर्थः । संनिकर्षो नाम संयोगः । हुस्वदीर्घयोरिव विवक्षितं किञ्चित्प्रतीत्य विवक्षितस्याल्पतया बहुत्वेन वा अवस्थानरूपः संबन्धः । उभयेऽपि सिद्धाः । केषु विषयेषु विचारणीयाः ? इत्याह'इमेसु' इति एषु पञ्चदशसु द्वारेषु ॥ ३ ॥ तान्येवाह
खित्ते काले गइ वे तित्थ लिंगे चरित्त बुद्धे य । नाणोगाहुक्कस्से, अंतरमणुसमयगणणअप्पबहू ॥ ४ ॥
'उक्कस्से' इति उत्कर्षद्वारम् ॥ ४ ॥ प्रथमत एषु पञ्चदशसु द्वारेषु सत्पदप्ररूपणयाऽनन्तरसिद्धाश्चिन्त्यन्ते
खित्ति तिलोगे ? १ काले, सिझंति अरेषु छसुवि संहरणा। अवसप्पिणि ओसप्पिणि, दुतिअरगेजम्मु तिदुसु सिवं २॥५॥
क्षेत्रद्वारे त्रिलोके । तत्रोर्ध्वलोके पण्डकवनादौ, अधोलोके ऽधोलौकिकग्रामेषु, तिर्यग्लोके मनुष्यक्षेत्रे सिध्यन्तीति क्रिया सर्वत्र योज्या । संहरणात् समुद्रनदीवर्षधरादिष्वपि । तीर्थकृतः पुनः संहरणाभावात् अधोलौकिकग्रामेषु तिर्यग्लोके वा पञ्चदशसु कर्मभूमिधू
1. 'स परः' इत्यपि । 2. 'गीतिच्छन्दः' । 3. इतोऽग्रे 'न शेषस्थानेषु' इत्यधिक क्वचित् ॥