________________
परिशिष्ट-१
१५५
१ । कालद्वारेऽवसर्पिण्यामुत्सर्पिण्यां च षट्स्वप्यरकेषु सिद्ध्यन्ति । देवादिकृतसंहरणादप्येवमेव । जन्माश्रित्य पुनरवसर्पिण्युत्सर्पिण्योर्यथासंख्यं द्वयोस्त्रियु चारकेषु जन्म । त्रिषु द्वयोश्च शिवं मोक्षः । अयमर्थ:अवसर्पिण्यां जन्म चरमशरीरिणां नियमतस्तृतीयचतुर्थारकयोः । सिद्धिगमनं तु एवमेव । परं केषांचित्पञ्चमारकेऽपि यथा जम्बूस्वामिनः । उत्सर्पिण्यां तु द्वितीयतृतीयचतुर्थार केषु जन्म । सिद्धिगमनं तु तृतीयचतुर्थ योरेव । महाविदेहेषु पुनः कालः सदैव सुषमदुःषमारूप: तद्वक्तव्यताभणनेनैव भणितो द्रष्टव्यः । तीर्थकृतां पुनरवसर्पिण्यामुत्सर्पिण्यां च जन्म । सिद्धिगमनं च सुषमदुःषमादुःषमसुषमारूपयोरेवारकयोर्जेयम् २ ॥ ५ ॥ चउगइआगय नरगइठिय सिव ३
वेयतिग ४ दुविहतित्थेऽवि ५ गिहि-अन्न-सलिंगेसु अ६,
चरणे अहखाइ वटुंता ॥ ६ ॥ ति चउ पण पुचि तिचरण,
जिणा ७ सयं-बुद्धि-बुद्ध-पत्तेया । दु-ति-चउनाणा ९ लहुतणु,
दुहत्थ गुरु पणधणुसयाओ १० ॥ ७ ॥ गतिद्वारे चतुर्गत्यागताः सामान्यतः सिध्यन्तीति शेषः । विशेषचिन्तायां पुनश्चतसृभ्यो नरकपृथिवीभ्यो न शेषाभ्यः । तिर्यग्गतेः पृथिव्यम्बुवनस्पतिपञ्चेन्द्रियेभ्यो न शेषेभ्यः । मनुष्यगतेः 'स्त्रीभ्यो
1. इतः प्राग् 'गर्भजेभ्यः' इत्यधिकं क्वचित् ।