________________
१५६
सिद्धप्राभृत: सटीक :
नरेभ्यो नपुंसकेभ्यो वा । देवगतेश्चतुर्भ्योऽपि देवनिकायेभ्यः । तीर्थकृतः पुनर्देवगतेर्नरकगतेर्वा अनन्तरागताः सिध्यन्ति । तत्राप्याद्यपृथिवीत्रयादेव न शेषाभ्यः । वैमानिकेभ्योन शेषदेवेभ्यः । वर्तमाननयमाश्रित्य मनुष्यगतिस्था एव शिवं प्राप्नुवन्तीति शेष: ३ । वेदद्वारे प्रत्युत्पन्न - नयमाश्रित्यापगतवेद एव सिध्यति । तद्भवानुभूतपूर्ववेदापेक्षया बाह्याकारमात्रापेक्षया च वेदत्रिकेषु । तीर्थकृतः पुनः स्त्रीवेदे पुरुषवेदे वो ४ । तीर्थद्वारे तीर्थकरतीर्थकरीतीर्थरूपे द्विविधेऽपि तीर्थे ५ । लिङ्गद्वारे इदं लिङ्गत्रयं द्रव्यलिङ्गापेक्षया ज्ञेयम् । संयमरूपभावलिङ्गापेक्षया तु खलिङ्गा एव ६ | चारित्रद्वारे चारित्रे यथाख्याते क्षायिके एव वर्त्तमानाः सिध्यन्ति ॥ ६ ॥ तद्भवपूर्वानुभूतचरणापेक्षया त्रिकं चतुष्कं पञ्चकं च प्राप्य सिध्यन्ति । अयमर्थः केचित्सामायिकसूक्ष्मसंपराययथाख्यातचारित्राणि, केचित्सामायिकच्छेदोपस्थापनीयसूक्ष्म
केचित्सामायिकपरिहारविशुद्धिकसूक्ष्मसंपराय
संपराययथाख्यातानि, यथाख्यातानि, केचित्सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातानि चारित्राणि प्राप्य सिध्यन्ति । जिनास्त्रिचरणा एव प्राप्तसामायिकसूक्ष्मसंपराययथाख्यातचारित्राः ७ । बुद्धद्वारे 'सयंबुद्धिपत्तेआ' इति सूचनात्सूत्रस्य स्वयं 'बाह्यप्रत्ययनिरपेक्षं बुद्धाः स्वयंबुद्धा: । बुद्धी मल्लिस्वामिनी सामान्यस्त्री वा तया बोधिता बुद्धीबोधिताः । बुद्धा आचार्यादयः तैर्बोधिता बुद्धबोधिताः । प्रत्येकं किमपि बाह्यप्रत्ययं दृष्ट्वा बुद्धाः प्रत्येकबुद्धा इति निर्देशो ज्ञेयः । ततः स्वयं च बुद्धी च बुद्धाश्च प्रत्येकश्च स्वयंबुद्धीबुद्धप्रत्येकाः । प्राकृतत्वाद् ह्रस्वः । स्वयंबुद्धीबुद्धप्रत्येकबुद्धानां बोधि १ उपधि २ श्रुत ३ लिङ्ग ४ कृतो विशेषः । स्वयंबुद्धा बाह्यप्रत्ययमन्तरेण जातिस्मरणादिना बोधि
1. 'बाह्यं निमित्ताद्यनपेक्ष्य' इत्यपि क्वचित् ॥ 2. इंतोऽग्रे - 'न नपुंसकवेदे' इत्यपि ॥
,