________________
परिशिष्ट-१
१५७
भाजः । प्रत्येकबुद्धाश्च प्रत्येकं बाह्यं वृषभादिकं हेतुमभिवीक्ष्य बोधिभाजः, ततस्ते प्रत्येकमेव विहरन्ति न गच्छवासिन इव संहिताः । स्वयंबुद्धानामुपधि‘दशविध एव पात्रादिकः । प्रत्येकबुद्धानां तु द्विधा, उत्कर्षतो जघन्यतश्च । उत्कर्षतो नवविधः प्रावरणवर्जः । जघन्यतो द्विविधो रजोहरणमुखवस्त्रिकारूपः । तथा स्वयंबुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा । यदि भवति ततो लिङ्गं देवता समर्पयति, गुरुसंनिधौ वा प्रतिपद्यते । यदि चैकाकी विहरणसमर्थः, इच्छा वा तस्य तथारूपा जायते; ततएकाक्येव विहरति, अन्यथा गच्छे एव तिष्ठति । अथ पूर्वाधीतं श्रुतं न स्यात् तर्हि नियमाद्गुरुसंनिधौ लिङ्गं प्रतिपद्यते, गच्छं चावश्यं न मुञ्चति । प्रत्येकबुद्धानां पूर्वाधीतं श्रुतं नियमाद्भवति; तञ्च जघन्यत एकादशाङ्गानि, उत्कर्षतः किञ्चिन्यूनानि दशपूर्वाणि । लिङ्गं च तस्मै देवता समर्पयति । लिङ्गरहितो वा कदाचित्स्यात् ८ । ज्ञानद्वारे केवलज्ञाने एव वर्तमानाः सिध्यन्ति । तद्भवानुभूतपूर्वज्ञानापेक्षया केचिद् द्विज्ञाना मतिश्रुतज्ञानाः, केचित्रिज्ञाना मतिश्रुतावधिज्ञानाः, यद्वा मतिश्रुतमनःपर्यायज्ञानाः, केचिञ्चतुर्जाना मतिश्रुतावधिमनःपर्यायज्ञानाः । तीर्थकृतस्तु चतुर्जानिन एव ९ । अवगाहनाद्वारे लघ्वी जघन्या तनुर्द्विहस्ता द्विहस्तप्रमाणा; गुरुरुत्कृष्टा पञ्चधनुरशता धनुरशतपञ्चकप्रमाणा । तशुब्दाद् धनुषां पञ्चविंशत्याधिकापि । सा च मरुदेव्या अवसेया तस्या आदेशान्तरेण नाभिकुलकरतुल्यत्वात् 'संघयणं संठाणं, उञ्चत्तं चेव कुलगरेहिँ समं' इति वचनात् । इत्थं सिद्धप्राभृतटीकायामप्युक्तम् । ततः सिद्धस्तुशब्दार्थः । शेषा तु मध्यमावगाहना । तीर्थकृतां जघन्या सप्तहस्तप्रमाणा, उत्कृष्टा पञ्चशतधनुर्माना शेषा मध्यमेति १० ॥ ७ ॥
कालमणंतर्मसंखं, संखं चुअंसम्म अर्चुअसम्मत्ता ११ ।