Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 445
________________ ( १०२ ) कर्म्मधारयश्च स्यात् । वैयाकरणखसूची मीमांसक दर्द रूढः । निन्द्यमिति किम् ? वैयाकरणश्चौरः । अपापाद्य रिति किम् । पापवैयाकरणः । हतविधिः ॥ १०० ॥ वैयाकरणश्चासो खसूची च वैयाकरणखसूची, यः शब्दं पृष्टः सन् निष्प्रतिभत्वात् खं सूचयति स एवमुच्यते । मीमांसकश्चासौ दुर्दुरूढ: मीमांसकदुर्दुरूढः । दुर्दुरूढः नास्तिकः क्वचित् दुर्दुरूट इति पाठ उपलभ्यते - तत्र दुःपूर्वात् दृणातेः 'दुरोद्रः कूटश्च दुर्च' । उणा० १५६ । इति किति ऊप्रत्यये दुरुदेशे च दुदुं रुट इति पृषोदरादिपाठात् टस्थाने ढकारे दुदु रुढः इति । वैयाकरणश्चौर इति - प्रत्यासत्ते निन्द्यशब्दप्रवृत्तिनिमित्तकुत्सायामयं समास इष्यते न चात्र चौर्येण वैयाकरणत्वं कुत्स्यते यस्मात् चौरोऽपि सम्यग् व्याकरणमधीते वेत्ति वा तस्मान्नात्र वैयाकरणत्वं प्रवृत्तिनिमित्तं कुत्स्यते । किंर्ताह ? तदाश्रयो द्रव्यं वैयाकरणत्वं तदुपलक्षणमात्रम् तेनात्र विशेषणसमासो भवति चौरवैयाकरणः । पापवैयाकरण इति - पापश्चासौ वैयाकरणश्चेति विग्रहः हतविधिरिति हतश्चासौ विधिश्चेति च विग्रहः । पापवैयाकरणः इत्यादिषु पूर्वनिपाते कामचारः विशेष्य-विशेषणभावस्य विवक्षाधीनत्वात् तथा च वैयाकरणस्य विशेषणत्वविवक्षायां वैयाकरणपापः इत्याद्यपि भवति । हतविधिरित्यादिषु तु जातिशब्देषु पापादेरेव विशेष णत्वमिति तस्यैव प्राग्निपातः । अधीतस्यानधीतरूपं हि पापमस्मिन् fara इति व्याकरणाध्ययनरूपं वैयाकरणत्वमेव निन्द्यते एवं हतविधिः । विशेष्यस्य पूर्वनिपातार्थं वचनम् । बहुवचनं प्रयोगानुसरणार्थम् ॥ १०० ॥ उपमानं सामान्यैः | ३|१|१०१ | उपमानवाच्येकार्थमुपमानोपमेयसाधारणधम्र्म्मवाचिभिरेव समासस्तत्पुरुषः कम्र्म्मधारयश्च स्यात् । शस्त्रीश्यामा । मृगचपला । उपमानमिति किम् । देवदत्ता श्यामा | सामान्यैरिति किम् । अग्निर्माणवकः ॥ १०१ ॥ उपमीयतेऽनेनेत्युपमानम् । उपमानोपमेययोः साधारणो धर्मः सामान्यम् । सामान्यैरेवेति बहुवचननिर्देशः स्वरूपविधेनिरासार्थः तेन सामान्यशब्दैन

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576