Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 531
________________ (955) कर्मधारयनिमित्तश्च प्राप्नोति स कथं न क्रियते इति चेत् सत्यम् परत्वात् यथाप्राप्तं पुंवद्भावमयं बाधते । अयमाशयः - दर्शनीयत रेत्याबन्तेषु, विद्वद्वृन्दारिकेत्यादिषु च पुंवद्भावः सावकाशः । नर्तकिरूपेत्यादी कोपान्त्यत्वनिमित्तकपुं वावप्रतिषेधात्प्रकृत- सूत्रं सावकाशम्, गौरितरेत्यादिषु तुभय प्राप्तिः तत्र 'स्पर्धे' | ७|४| २१६ | इति परिभाषया परत्वादयमेव विधिरिति । 'नवैकरस्वराण्यम्' | ३ | २|६६ । इत्युत्तरत्र वचनादनेकस्वरस्यै - बायं विधिः ||६४ || भोगवद्गौरिमतोर्नाम्नि | ३ |२| ६५ | अनयोर्यन्तयोः संज्ञायां तरादिषु प्रत्ययेषु ब्रुवादौ चोत्तरपदे एकार्थे ह्रस्वः स्यात् । भोगवतितरा । गोरिमतितमा । भोगवतिरूपा । गौरिमतिकल्पा । भोगवतिब्रुवा । गौरिमतिचेली । भोगवतिगोत्रा । गौरिमतिमता । भोगवतिहता । नाम्नीति किम् ? भोगवतितरा । भोगवत्तरा । भोगवतीतरा ॥ ६५ ॥ नाम्नीति भोगवद्गौरिमतोरेव विशेषणं न तु तत्सहित वृत्तेः तेन सह सूत्र - स्थपदस्यास्य सम्बन्धासम्भवात् । भोगाः सर्पफणाः सर्पकञ्चुका वा सन्त्य - स्याम सा भोगवती । यद्यपि 'अन० | ३|२८|इति दीर्घे - भोगावतीति भवति, प्रकृतसूत्रे ह्रस्वनिर्देशादेव भोगवतीति ह्रस्वमध्यः पाठः । गौरशब्दात् गौरादित्वान्ङीः ततो मतौ स्त्रियां गौरिमतीति । नदीविशेषनाम्नी एते । न च नदीविशेषे कुतः फणानां सत्ता, ते हि सर्पाणामेव शरीरे स्युरिति वाच्यम् सर्पद्वारा नद्या अति तद्वद्वत्त्वे बाधकाभावात् । भोगवतितरा, भोगवत्तरा, भोगवतीतरेति - अत्र भोगवच्छन्दो न नामापि तु भोगाः सुखादयः सन्त्यस्या इति विग्रहवशाद्विशेषणभूतः परतः स्त्रीलिङ्गः पूर्वत्र तु नित्यस्त्रीलिङ्गो नदीविशेषस्य नामत्वात् ॥ ६५॥ नवैकस्वराणाम् ||२।६६।

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576