Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 546
________________ ( २०३ ) शतम् त्रयश्च शतं च त्रिशतम् । द्वाभ्यामधिका अशीतिः द्वौ च अशीतिश्च शीतिः । द्वौ वा यो वा द्वित्राः ||२|| चत्वारिंशदादौ वा | ३|१|१३| द्वित्र्यष्टानां प्राक्शताच्चत्वारिशदादावुत्तरपदे यथासंख्यं द्वात्रasष्टा वा स्युः, अनशीति बहुव्रीहौ । द्वाचत्वारिंशत् । द्वित्वारिंशत् । त्रयचत्वारिंशत् । विचत्वारिंशत् । अष्टाचत्वारिंशत् । अष्टचत्वारिंशत् ॥६३॥ पूर्वेण नित्यं प्राप्ते विकल्पार्थमिदम् । द्वाभ्यामधिका. द्वौ च चत्वारिंशच्चेति वा द्वाचत्वारिंशत्, द्विचत्वारिंशत् । एवं त्रिभिरधिका, तयश्च चत्वारिंशच्चेति अष्टाभिरधिका, अष्ट च चत्वारिंशच्चेति त्रयश्चत्वारिशदित्यादि ||३|| हृदयस्य हृल्लासलेखाये | ३ |२| ६४ अस्य लासलेखयोरुत्तरपदयोरणि ये च प्रत्यये हृत् स्यात् । हृल्लासः । हृल्लेखः । हार्द्दम् । हृद्यः ॥ ६४ ॥ हृदयस्य लासः हृल्लासः, लसनं विलसनं लासः भावे घञ् हर्षातिरेकः, हृदयं लिखतीति हृल्लेख:, हृदये कमपि भावमाविष्करोतीति । भावः 'कोण' | ५|१|७२ | इत्यण् । अणुसन्निधानाल्लेखशब्दोऽप्यन्तो गृह्यते तेनं घञन्ते न भवति हृदयस्य लेख : हृल्लेखः । न च लासशब्दस्य सान्निध्यात लेखशब्दस्य घनन्तस्य ग्रहणं कुतो नेति वाच्यं पूर्वात् परबलीयस्त्वमिति परस्याणः सान्निध्यात् लेखशब्दस्याण एव ग्रहणमुचितमिति भावः । हृदयस्येदं-हादम् 'तस्येदम्' | ६ | ३ | १४२ । इत्यण् । हृदयस्प प्रिय: हृद्यः, हृदयस्य बन्धनो मन्त्रः हृयः वशीकरणमन्त्रः । अत्र प्रियार्थे बन्धनार्थे च 'हृद्यपद्य०' 1७1919१ | इति यप्रत्ययो निपात्यते । 'अण्' इत्येव सिद्ध लेख ग्रहणम् 'सिद्ध सत्यारम्भो नियमार्थ:' इति

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576