Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
________________
(
२२० )
कोः कत्तत्पुरुषे ।३।२।१३०॥ स्वरादावुत्तरपदे कोस्तत्पुरुष कद् स्यात् । कदश्वः । तत्पुरुष इति किम् ? कूष्ट्रो देशः स्वरइत्येव ? कुब्राह्मणः ॥१३०॥ कुशव्दोऽव्ययमिह गृह्यते तस्यैव प्रतिपदोक्तत्वेन 'गति-क्वन्यस्तत्पुरुषः' ।३।१।४२। इति समासविधानात् तथा च पृथ्वीवाचककुशब्दस्य नायमा- . देशः । एवं च कु पृथ्वीमतीतः क्वतीत इत्यादौ तत्पुरुषे कदादेशो न भवति तन हि द्वितीयान्तत्वस्य सामान्यरूपेण लक्षणरूपत्वेन वा तत्समासस्य लाक्षणिकत्वात् । कुत्सितः अश्वः कदश्वः, कुत्सिता उष्ट्रा अस्मिन्अष्ट्रो देशः । कुत्सितो ब्राह्मणः कुब्राह्मणः ॥१३०।।
रथवदे ।३।२।१३१॥
रथे ववे चोत्तरपदे कोः कद् स्यात् । कद्रथः । कद्ववः ॥१३१॥ कुत्सितो रथः कद्रथः, कुत्सितो रथोऽस्य कद्रथः । वदनं-वदः, पुसि नाम्नि घः । कुत्सितो वदः-कद्वदः, कुत्सितो वदोऽस्य कद्वदः ।।१३१।।
तृणे जातौ ।३।२।१३२॥ जातावर्थे तृणे उत्तरपदे कोः कद् स्यात् । कत्तृणा रोहिषाल्या तृणजातिः ॥१३२॥ कुत्सितं तृणमस्या:-कत्तृणा रोहिषाख्या तृणजातिः। जाती रूढत्वेनावयवार्थप्रतीत्यभावेऽपि पूर्वोक्तपदावगतयेविग्रहवाक्यं प्रदर्शितम् ।।१३२।।
कत्त्रिः ।३।२।१३३॥
कोः किमो वा त्रावुत्तरपदे कद् स्यात् । कत्त्रयः ॥१३३॥
Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576