Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
________________
( २२६ )
अन्यस्य त्यदादेश्च दृगादावुत्तरपदे आः स्यात् । अन्यादृक् । अन्यादृशः । अन्यादृक्षः । त्यादृक् । त्यादृशः । त्यादृक्षः । अस्मादृक । अस्मादृशः । अस्मादृक्षः ॥१५२॥ । अन्य इव दृश्यते अन्यादगित्यादिः । स्य इव दृश्यते त्यादक्षःत्यादि । आवामिव वयमिव वा दृश्यते इति 'त्वमौ प्रत्ययोत्तरपदे चैकस्मिन्' ।२।१।१२। इति मादेशाभावात् अस्मादगियादि ।।५२॥
इदङ्किमीत्की ।३।२।१५३। दगादावुत्तरपदे इदङ्किमौ यथासङ्ख्यमोत्कोरूपौ स्याताम् । ईदृक् । ईदृशः । ईदृक्षः । कीदृक् । कोदृशः । कीदृक्षः ॥१५३॥ स्थान्यादेशयोः सामानाधिकरण्येन निर्देशः सर्वादेशार्थः । तथा सति ईदादेशः सम्पूर्णस्येदमः स्थाने भवति, अन्यथा तस्यैकवर्णरूपत्वेन षष्ठीनिर्देशेऽन्यस्यैव विधिः स्यात्, को' आदेशास्तूभयत्र सर्वादेश एवानेकवर्णत्वात् । अयमिव दृश्यत इति-ईदृगित्यादि । क इव दृश्यते कीदृगित्यादि ॥५३।।
अनञः कृत्वोयप् ।३।।१५४। नोऽन्यस्मादव्ययात्पूर्वपदात्परं यदुत्तरपदं तदवयवस्य कत्वोयप् स्यात् । प्रकृत्य । अनजइति किम् ? अकृत्वा, परमकृत्वा । उत्तरपदस्येत्येव ? अलंकृत्वा ।।१५४॥
'न नाम्येकस्वरात०' ।३।२।६। इत्यतः 'उत्तरपदे' इत्यधिकृतं, तत्सामर्थ्यात पूर्वपदस्येति लभ्यते । क्त व इति षष्ठीनिर्देशात् क्त वाप्रत्ययान्तस्योत्तरपदस्येति लभ्यते तत्सामर्थ्यात् 'अना' इत्यस्य पञ्चम्यन्तत्वात् उत्तरपदसामर्थ्यलब्धस्य पूर्वपदस्यापि पञ्चम्यन्तत्वमेव समानाधिकरण्यानुरोधात क्वेति प्रत्ययः, तद्ग्रहणे तदन्तस्य ग्रहणं भवतीति पर्युदासेन नभिन्नाद्
Page Navigation
1 ... 570 571 572 573 574 575 576