SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ( २२६ ) अन्यस्य त्यदादेश्च दृगादावुत्तरपदे आः स्यात् । अन्यादृक् । अन्यादृशः । अन्यादृक्षः । त्यादृक् । त्यादृशः । त्यादृक्षः । अस्मादृक । अस्मादृशः । अस्मादृक्षः ॥१५२॥ । अन्य इव दृश्यते अन्यादगित्यादिः । स्य इव दृश्यते त्यादक्षःत्यादि । आवामिव वयमिव वा दृश्यते इति 'त्वमौ प्रत्ययोत्तरपदे चैकस्मिन्' ।२।१।१२। इति मादेशाभावात् अस्मादगियादि ।।५२॥ इदङ्किमीत्की ।३।२।१५३। दगादावुत्तरपदे इदङ्किमौ यथासङ्ख्यमोत्कोरूपौ स्याताम् । ईदृक् । ईदृशः । ईदृक्षः । कीदृक् । कोदृशः । कीदृक्षः ॥१५३॥ स्थान्यादेशयोः सामानाधिकरण्येन निर्देशः सर्वादेशार्थः । तथा सति ईदादेशः सम्पूर्णस्येदमः स्थाने भवति, अन्यथा तस्यैकवर्णरूपत्वेन षष्ठीनिर्देशेऽन्यस्यैव विधिः स्यात्, को' आदेशास्तूभयत्र सर्वादेश एवानेकवर्णत्वात् । अयमिव दृश्यत इति-ईदृगित्यादि । क इव दृश्यते कीदृगित्यादि ॥५३।। अनञः कृत्वोयप् ।३।।१५४। नोऽन्यस्मादव्ययात्पूर्वपदात्परं यदुत्तरपदं तदवयवस्य कत्वोयप् स्यात् । प्रकृत्य । अनजइति किम् ? अकृत्वा, परमकृत्वा । उत्तरपदस्येत्येव ? अलंकृत्वा ।।१५४॥ 'न नाम्येकस्वरात०' ।३।२।६। इत्यतः 'उत्तरपदे' इत्यधिकृतं, तत्सामर्थ्यात पूर्वपदस्येति लभ्यते । क्त व इति षष्ठीनिर्देशात् क्त वाप्रत्ययान्तस्योत्तरपदस्येति लभ्यते तत्सामर्थ्यात् 'अना' इत्यस्य पञ्चम्यन्तत्वात् उत्तरपदसामर्थ्यलब्धस्य पूर्वपदस्यापि पञ्चम्यन्तत्वमेव समानाधिकरण्यानुरोधात क्वेति प्रत्ययः, तद्ग्रहणे तदन्तस्य ग्रहणं भवतीति पर्युदासेन नभिन्नाद्
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy