________________
( २३० )
नञ्चदशात् (अव्ययात्) पूर्वपदारपरस्य क्तान्तस्योत्तर पदस्य थप् भवति स च 'निर्दिश्यमानस्यैवादैशा भवन्ती' इति न्यायान्निदिय॑मानस्य क्त वाप्रत्ययस्य यबादेशः । प्रकृत्येति-कृत्वेति क्त वान्तम्, तस्य प्रशब्देन गतिसमासः, प्रशब्दश्चाव्ययं पूर्वपदम् तस्मात्पर क्त्वान्तमत्तरपदं तदवयवस्य क्त वो यबादेशः ह्रस्वस्य तः पित्कृति' ।४।४।११३॥ इति तागमः । न कृत्वा शकृत्वा परमकृत्वेति-परमं च तत् कृत्वेति विग्रहः। 'सन्महत्' ।३।१।१०७। इति समासः । अनत्रः इति पयुंदासान्ना सदशमव्ययं गृह्यते इति इह परमाद-नव्ययात् न भवति । अलं कृत्वेति-'निषेधेऽ लं-खल्वो: क्त वा' ।५।४।४४। इति क्त्वा अत्र क्वाविधायक-सूत्र'ऽ लंखल्वोः सप्तम्योक्तत्वेन ङस्युक्तत्वाभावान्न ङस्यूक्त-समास इति । अलंकृत्वाशब्दयोः पूर्वोत्तरपदत्वाभावः न हि पर्वमवस्थितं पदं पर्वपद-मत्तरमवस्थितं पद-मत्तरपदमिति पर्वोत्तरपदयोः यौगिकी शक्तिः व्याकरणे समपयुज्यते ऽपि तु पर्वपद-शब्द: समासप्रथमावयवे रूढः उत्तरपदशब्दश्च समास-चरमावयवे रूढ इति प्रकृते समासाभावादुत्तरपदत्वाभावाद्यबादेशो न भवति ॥५४॥
पृषोदरादयः ।३।२।१५।
एते साधवः स्युः । पृषोदरः, बलाहकः ॥१५५॥ आदिशब्दोऽ त्र प्रकारवाची न तु व्यवस्थावाची। प्रकास्वाचित्वे गणे पटितेभ्योऽ न्येऽप्येवविधाः शिष्टप्रयुक्ताः शब्दा पृषोदरादित्वेन ग्रहीतु शक्याः । व्यवस्थावाचित्वे तु पृषोदरशब्दस्याद्यवयवत्बेन निर्दिश्य पठितसमुदायान्तर्गतस्यैव पृषोदरादित्वेन ग्रहणं स्यात् । पृषदिवोदरमस्य पृषदुदरेऽ स्येति वा पृषोदर: अत्रो-भयत्र विग्रहे पृषत्' शब्दो विन्दुवाची अनेन तकारलोपः। पृषत उदरं पृषोदरमिति षष्ठीसमासे पृषच्छब्दो मृगविशेषवाची ।बहुवचनमाकृतिगणार्थम् ॥५५॥ वावाप्योस्तनिक्रीधाग्नहोर्वपी।३।२।१५६। अवस्योपसर्गस्यतनिक्रियोरपेश्च धाग्नहोर्यथासङ्ख्यं वपी वा स्याताम् । वतंसः । अवतंसः । वक्रयः । अवक्रयः । पिहितम् । अपिहितम् । पिनद्धम् । अपिनद्धम् ॥१५६॥