________________
( २२८ ) समाने आगमे व्रतं चरतीत्यत्र समानत्वं तदध्येयग्रन्थतुल्याध्येय-त्वेन, एवं समाने गुरुकुले व्रतं चरतीत्यत्र समानत्वं तद्गुरुकुलतुल्यगुरुकुलत्वेन । तत्र यद्यपि ब्रह्मचारीत्यस्यैव निपात्यमित्यायाति, तथाप्यवयवद्वारा अत्र साधुत्वमुक्तवा पुन: तस्य धर्मादिषु पाठकल नेत्यादिगौरवात् समदायस्येव निपातनमुचितमिति तथैव कृतम् ।।१५०।।
दृगदृशदृक्षे ।३।२।१५१॥
एकूत्तरपदेषु समानस्य सः स्यात् । सदृक् । सदृशः । सदृक्षः ॥१५१॥ समान इव दृश्यते-सदृक्, सदृशः, सदृक्षः-'त्यदाद्यन्यसमानादुपमानाद्' ।५।१।८५२। इति क्विप्टकसक: टक-सक्सहचरितक्विन्तस्यैव दृशो ग्रहणादिह न भवति-समानादृक समानदृक् । अत्रेदं विचार्यते-समान इव दृशयते इति व्याप्ये (कर्मणि) प्रत्ययविधानात् कर्मणि विग्रहः, ये च व्याप्ये प्रत्ययं न विदधति ते 'तमिवेमं पश्यन्ति जनाः, इत्यर्थे स इवायं पश्यति ज्ञानविषयो भवतीति कर्मकर्तरि प्रत्ययमाहुः । स्वमते च सूत्र एव त्याप्ये कथनात् झटित्येवार्यसंगतिरिति न क्लिष्टकल्पनाऽऽ वश्यकता । 'समान इव दृश्यते' इति कथनं च 'त्यदाद्यन्य: ।५।१।१५१। इति सूत्रस्योपमानपदस्य सर्वत्रान्वयस्यौचित्यमनुरुध्य अन्यथा समानशब्दस्याप्युपमानवाचित्वेन पुनरुपमानवाचिन इवशब्दस्य प्रयोगोऽ-नावश्यक एव, सदृशशब्दस्य समानत्वेन दष्टिविषयतैवार्थः न त समानत्वेनैव दष्टिविषय इति । तथा च साम्यस्यापि तत्राभावो भासेत समान इव दृश्यते न तु वस्तुतः समान इति प्रतिपत्तेः, तथा च समानो दृश्यते इत्येव प्रयोगार्थः । समाना दुक सदृक इत्यत्र-इन्द्रियाणां कर्तृत्वविवक्षायां पश्यतीति कर्तरि क्विपि दृक् । करणत्वविवक्षायां पश्यत्यनयेति दृक अन्न 'क्र त्संपदादिभ्यः क्विप' ।५।३।११४॥ इति करणे विवप्, 'पुवत् कर्मधारये' ।३।२।५०। इति पुवद्भावः ।।१५१॥
अन्यत्यदादेराः ।३।२।१५२।