________________
( २२७ )
दिवर्जनं किम् ? स्वस्ति तुभ्यं सगवे । सहगवे । सवत्साय । सहलाय । सहहलाय ॥१४८॥ शिष्येण सहिताय गुरवे स्वस्तीति विवक्षिते शिष्य-टा-सहेत्यस्य समासः, 'सहस्य सोऽन्यार्थे ।३।२।१४३। इति सादेशे प्राप्तेऽनेन निषेधः। स्वस्ति. शब्दयोगे सहशिष्यशब्दाच्चतुर्थी । सपुत्र इति-पुत्रेण सह सपुत्र अत्राशीनंगम्यते । 'सहस्य सोऽन्यार्थे' ।३।२।१४३। इति सादेशः, ननु सपुत्र इत्यादी 'आशिषि' इति कथनाभावेऽपि 'सहस्य सोऽन्यार्थे' ।३।२।१४३। सादेशः, नन सपूत्र इत्यादौ 'आशिषि' इति कथनाभावेपि सहस्य सोऽ० ।३।१।१४३ इति सूत्रवैयर्थं स्पादितिस्त्रारम्भसामदेिव सादेशो भविष्यतीति चेत्सत्यं सगवे सहगवे सवत्साय सहवत्साय' इत्यादिप्रयोगेषु तत्सार्थक्यस्य जागरुकत्वात् ।।।१४८।।
समानस्य धर्मादिषु ।३।२।१४६॥ धर्मादावुत्तरपदे समानस्य सः स्यात् । मधर्मा । सनामा ॥१४॥ समानो धर्मोऽस्य-सधर्मा 'द्विपदाद् धर्मादन्' ।७।३।१४१। इत्यन् । समानं नामास्य सनामा । बहुवचनमाकृतिगणार्थम् ।।१४६।।
सब्रह्मचारी ।३।२।१५०
· अयं निपात्यते ॥१५०॥ ब्रह्म आगमः, इति तदध्ययनार्थं व्रतमपि लक्षण्वा ब्रह मैव तच्चरतीति विग्रहे 'व्रता० ।५।१।१५५॥इति णिनि ब्रह्मचारीति। समानो ब्रह्मचारीतिविग्रहे विशेषणसमासेऽनेन समानस्य सादेशमात्र निपात्यते ब्रह्मचरिशब्दस्यान्यथैव सिद्ध: । सादेशमात्रस्य विधेयत्वे धर्मादिप्वेव ब्रह्मचारिशब्दे पठिते ऽपि प्रकृतप्रयोगसिद्धिरिति निपातनवैयर्थ्यमि-त्यरुचे विग्रहान्तरं प्रदर्श्यते। समाने ब्रह्मण्यागमे गुरुकुले वा व्रतं चरतीति विग्रहे निपातनात् व्रतशब्दस्य लोपः समानपूर्वे ब्रह्मण्युपपदे व्रते कर्मणि चरेणिन्नपि निपातनलभ्य एव ।