Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 566
________________ ( २२३ ) तते हिते चोत्तरपदे समो लुग् वा स्यात् । सततम् । सन्ततम् । सहित-म् । संहितम् ॥१३९।। तनोतेःक्त ततमिति-सम्यक ततं-सततम्। अत्र समो मस्य लोपेपक्षे सन्ततम्। दधातेः क्त हितमिति-सम्यक् हितमिति विग्रहे समासेऽनेन मलोपः ।१३९। तुमश्च मनः-कामे ।३।२।१४०। तुम्समोर्मनसि कामे चोत्तरपदे लुक् स्यात् । भोक्तुमनाः । गन्तुकामः। समनाः । सकामः ।।१४०॥ -- भोक्तुमनोऽस्य-भोक्त मनाः, गन्तु कामोऽस्य गन्तुकामः, सम्यक् मनोऽस्य समनाः, सम्यक कामोऽस्य सकामः । सहशब्देनापि सिद्धी मकारसहितस्य समः श्रुतिर्मा भूदित्येतदर्थं वचनम् ॥१४०।। मांसस्यानपनि पचि नवा ।३।२।१४१॥ अनड्-धजन्ते पचावुत्तरपदे मांसस्य लुग्वा स्यात् । मांस्पचनम् । मांसपचनम् । मांस्पाकः । मांसपाकः ॥१४१॥ पर्भावेऽनट मांसस्य पचनम्,मांस्पचनम्मांसपचनम्। अनेनाकारलुक तस्य बहिरङ्गतयाऽसिद्धत्वात्,सकारस्य रुत्वं संयोगान्तलोपश्चनभवतः स्वरस्य परे प्राग्विधौ' ।७।४।११०। इति स्थानिवत्त्वेन तु न निर्वाहः'न सन्धिं.' ७।४।1१११। इति परिभाषयाऽसद्विधौ तन्निषेधात् । पचेर्भावे घत्र मांसस्य पाकः -मांस्याकः, मांसपाकः ॥१४१।। दिकशब्दात्तीरस्य तारः ।३।२।१४२॥ अस्मात्परस्य तीरस्योत्तरपदस्य तारो वा स्यात् । दक्षिणतारम् । दक्षिणतीरम् ॥१४२॥

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576