Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 569
________________ ( २२६ ) ग्रन्थाऽन्ते |३|२| १४७ | एतद्वाच्युत्तरपदे सहस्यान्ययोभावे सः स्यात् । सकलं ज्योतिष मधीते ॥ १४७ ॥ ग्रन्थशब्दश्चेहग्रथ्यमानशास्त्रादिपरो न तु पुस्तकपरः ग्रन्थस्यान्तो ग्रन्थार्थः । कलामन्तं कृत्वा ==सकलं ज्योतिषमधीते कलामन्तं कृत्वेति-लौकिकं वाक्यम् अलौकिकं (शास्त्रीयं तु कलया सहेति 'सह-कला-टा' इति अनेन सहस्य सः | 'गोश्चान्ते० ' | २|४|१६| इति ह्रस्वः । कलाशब्दः कालविशेषवाची किन्तु प्रकृते तत्काल सहचारिणि तत्कालवर्तिनि ग्रन्थे लक्षणया प्रयुज्यते अवीयमानग्रन्थम् अध्ययन कालान्तिमकलावर्तिग्रन्येन सहितमधीते इत्यर्थस्य विवक्षणात् 'विभक्तिसमी ० ' |३|१|३ | इत्यन्तार्थेऽव्ययीभावः । केचित्तु ज्योतिः - शास्त्रस्य कालप्रतिपादकत्वस्य प्रसिद्धत्वात् कलादिशब्दाः कलादिप्रतिपादकग्रन्थपराः आदिशब्दाद् मुहूर्तादयो ग्राह्याः । तथा चकलादिप्रतिपादकग्रन्थमवधि कृत्वाऽधीते इति विवक्षितोऽर्थ इत्याहुः तन्न तथा सति उत्तरपदस्य ग्रन्थान्तप्रतिपादकत्वं न स्यादिति ( तद् ) ग्रन्थान्तवाचि म्युत्तरपदे इति वृत्तिग्रन्थो विरुध्येत । ननु कलादिशब्दानां ग्रन्थान्तवाचि - त्वेन कालवाचित्वाभावात् 'अकाले' इति निषेधाप्रसक्त्या पूर्वसूत्रेणैव सहस्य सादेश: सिद्ध एवेति व्यर्यमिदं सूत्रमिति चेत्सत्यं कालार्थोऽयमारम्भः । अयमाशय: - 'अकालेऽव्ययीभावे' | ३ २ १४६ । इत्यत्राकाले इत्यस्य कालनिरूपितवाचकताव्यावर्तककालत्व व्याप्यानुपूर्वी भिन्नानुपूर्वी मत्युत्तरपद इत्यर्थः एवं चात्र कलादिशब्दानां ग्रन्थान्तपरत्वेऽपि तदानुपूर्व्या. (तदुद्घटतवर्ण सन्निवेशक्रमस्य) कालनिरूपितवाचकताव्यावर्तककालत्वव्याप्यानुपूर्वीमत्त्वमेव तादृशानुपूर्व्या एव कालवाचित्वस्यान्यत्र दृष्टत्वात् इति पूर्वसूत्रे सादेप्राप्ती सादेशार्थं प्रकृत-सूत्रविधानम् ||१४७|| , . नाशिष्य गोवत्सहले । ३।२।१४८ । गर्वादिवजें उत्तरपदे आशिषि गम्यायां सहस्य सो न स्यात् स्वस्ति गुरवे सहशिष्याय । आशिषीति किम् ? सपुत्रः । गवा

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576