Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 553
________________ ( २१० ) उदकगाहः । पूर्वसूत्र पूर्य उत्तरपदे प्रवर्तते, मन्थादीनां च पूरयितव्यवाचित्वाभावः स्पष्ट एवेति पूर्वसूत्रेण न प्राप्तिरिति तदर्थमयं सूत्रारम्भकृतो यत्नः कृतः ॥१०॥ नाम्न्युत्तरपदस्य च ।३।।१०७। उदकस्य पूर्वपदस्योत्तरपदस्य च संज्ञायामुदः स्यात् । उदमेघः । उदवाहः । उदपानम् । उदधिः । लवणोदः । कालोदः ॥१०॥ उदकपूर्णो मेघः उदमेघः । तत्सादृश्यात् तादशस्य कस्यचन पुरुषस्य संज्ञेयम् । उदकं वहतीत्युदवाहः, 'कर्मणोऽण' ५।३।१४। इत्यण । अयमपि पुरुषविशेषस्य संज्ञा। पीयतेऽस्मिन्निति पानं जलपानस्थानम्-उदकस्य पानं उदपानम् कूपादिसमीपे पश्वादिजलपानार्थ स्थलविशेषो निर्मीयते तदेव उदपानंनिपानं वो-च्यते । उदकं धीयतेऽस्मिन्निति उदधिः समुद्रनामसु प्रसिद्धोऽयं शब्दः, लवणं क्षारमुदकं यस्य स लवणोदः, कालं कृष्णवर्णमुदकं यस्य स कालोदः । एवं-नामानो समुद्रौ ।।१०७॥ ते लग्वा ।३।।१०। संज्ञाविषये पूर्वोत्तरपदे लुग्वा स्यात् । देववत्तः । देवः । दत्तः ॥१०८॥ शब्दसाम्येऽ पि प्रकरणादेरर्थविशेषनिर्णयः । अयं भावः-उत्तरपदस्य लोपे 'देवः' इत्युच्यमानोऽ-यं त्रिदशवाचकः अथवा देवदत्तवाचक इति सन्देहे प्रकरणादेरर्थ-विशेषनिर्णयो भवति । संयोगो विप्रयोगश्च, साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्ग, शब्दस्यान्यस्य सन्निधिः ॥१॥ सामर्थ्यमौचिती देशः, कालो व्यक्तिः स्वरादयः ।

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576