Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
________________
( २१५ )
रात्रिचरः । खिद्वर्जनमिति किम् ? रात्रिमन्यमहः । कृदन्तइति किम् ? रात्रिसुखम् । अन्तग्रहणं किम् ? रात्रयिता ॥११७॥ रात्रौ चरतीति 'चरेष्ट:' ।५।१।१३८। इति टोऽनेन मागमः । रात्रिमात्मानं मन्यते इति-रात्रिमन्यमहः 'खित्यनव्य०।३।२।१११॥इति नित्यमेवरात्रेः सुखम्रात्रिसुखम्। सुखशबदोऽत्राव्युत्पन्नः। रात्रिरिवाचरति क्विप्,लुक्,तृचरात्रयिता। इदमेवान्तग्रहण ज्ञापकम्-इहोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययस्यैवग्रहणं न नदन्तस्येति, तेन कालात्तनतरतम०'1३।२।२४।इत्यादी प्रत्ययमात्रस्यैव ग्रहणं सिद्धम्, 'न नाम्येकस्वरात्' ३।२।६। इत्यादी त्वसंभवातदन्तग्रहणम् । केचित् 'तीर्थंकर, तीर्थकर इत्यत्रापि विकल्पमिच्छन्ति, तदर्थं प्रकृतसूत्रस्य द्विधा विभागः कार्यः 'नवाऽखित्कृदन्ते' इत्येको योगः, 'रात्रेः' इति च परः । तथा च पूर्वयोगेन सामान्यत एव खिद्भिन्ने कृदन्ते मागमविधानेन तीर्थंकरादावपि प्रवृत्तिः 'रात्रेः' इत्यनेन च विशिष्य रात्रिशबदस्यैव मान्तागमविधानम् । न चैवं कुम्भकार इत्यादावपि मागमः स्यान्निवारकाभावादिति वाच्यं योगविभागस्येष्टसिद्धयर्थत्वात् अन्यथा रात्रिञ्चर इत्यादावपि पूर्वयोगेनैव सिद्धरुत्तरयोगस्य वैयर्थ्यापातात् । उत्तरयोगारम्भसामर्थ्यादेव पूर्वयोगस्य क्वाचित्कन्वज्ञापनाद् वा, किञ्च परमतसंग्रहोपायत्वेनास्य योगविभागस्य स्वीकारान्नै तदाश्रयणे-न दोषापादनमुचितमिति ॥११७॥
धेनोभव्यायाम् ।३।२।११८॥ धेनोभव्यायामुत्तरपदे मोऽन्तोवा स्यात् । धेनुम्भव्या । धेनुभव्या ॥११॥ धेनुश्चासो भव्या च धेनुभव्या धेनुभव्या । नव-प्रसूतिका गौधेनुः,भव्याशबदः 'भव्यगेय-जन्य० ।५।१७। इति सूत्रेण निपातितः । धेनु-शब्देन मयूरवयंसकादित्वात्समासे विशेषणस्य भव्याशब्दस्य परप्रयोगः, विशेषणसमासे तु भक्याशब्दस्यैव पूर्वप्रयोगः स्यात् ।।११८।।
Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576