Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 560
________________ ( २१७ ) पृथग्योगादषष्ठीतृतीयादिति निवृतम् । अन्यस्यायमन्यदीयः । 'गहादिभ्यः' ।१।३।६३॥ इत्यत्रगहादेराकृतिगणत्वादीयः । अन्यस्यान्येन वा कारकः अन्यत्कारकः अन्यः कारक इति वा अन्यत्कारकः । अन्यस्य कारक इत्यर्थे 'कृति' ।३।१७१। इति समासः। अन्येन कारकः इत्यर्थे 'कारकं कृता' १३।१।६८। इति समासः । अन्यः कारकः इत्यर्थे विशेषणसमासः ॥१२१॥ सर्वादिविष्वग्देवाड्डद्रिः क्वयञ्चौ ।३।२।१२२॥ सर्वाविष्वग्देवाभ्यां च परत:क्विबन्ते अञ्चावुत्तरपदे डदिरन्तः स्यात् । सवंद्रीचः । द्वयद्रयङ् । कद्रयङ् । विश्वव्यङ् । देवद्रयङ् । क्वीति किम् । विष्वगञ्चनम् ॥१२२॥ सर्वमञ्चति तस्य ‘सर्वद्रि+अञ्च+अस् इति, स्थिती न-लोपे 'अच्च प्राग्दीर्घश्च' ।।१।१०४। इति चादेशो दीर्घश्च । द्वौ अञ्चतीति द्वयव्यङ, किमञ्चतीतिकद्रयङ्। विष्वगित्यव्ययं विश्वगञ्चतीति विष्वद्रयङ। देवा: नञ्चतीति देवद्रयङ ।।१२२।। सहसमः सधिसमि ।३।२।१२३। अनयोः स्थाने क्विबन्ते अञ्चावुत्तरपदे यथासंख्यं सध्रिसमी . स्याताम् । सध्यङ् । सम्यङ् । क्वयञ्चावित्येव ? सहाञ्चनम् ॥१२३॥ सहाञ्चतीति-सध्रयङ्, समञ्चतीति सम्यङ् । सहाञ्चनमिति-क्विबन्ताञ्चिय त्तरपदत्वाभावादत्र न भवति ।।१२३।। - तिरसस्तियति ।३।२।१२४।

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576