Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 547
________________ ( २०४ ) न्यायात्किञ्चित् ज्ञापयति ‘संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्य ग्रहणं न तदन्तस्य इति, ज्ञापयति तेनात्राणग्रहणे लेखग्रहणं न स्यादिति तस्येह सूत्रे ग्रहणं सार्थकम् फलं चान्येषामणन्तानां ग्रहणं न भवतीति । 'खित्यनव्यया०' ।३।२।१११। इत्यादौ त्वसंभवात्तदन्तग्रहणम् । हृदयशब्दसमानार्थेन हृच्छब्देनैव सिद्ध हृदादेशविधानं लासादिषु हृदयशब्दप्रयोग- . निवृत्त्यर्थम् ॥६४॥ पदः पादस्याज्यातिगोपहते ॥३॥२॥६५॥ पादस्याज्यादावुत्तरपदे पदः स्यात् । पदाजिः। पदातिः । पदगः । पदोपहतः ॥६॥ पादाभ्यामजति अतति चेति ‘पादाच्चात्यजिभ्याम्' ।६।२०। इति औणादिके इणि पदाजिः पदातिः, अजिरतिश्च गमनाथौ धातू । अत एव शात अघत्र' ।४।४।३। इति सत्रेण अजेर्वीः आदेशो न भवति । अयं भाव:-कानिचित्कार्याणि आचार्याः स्पष्टं कानिचिच्च स्वाचारेण शिक्षयन्ति तथा चाचार्येण आजिशब्दव्यव-हारादत्र तदभावोऽ नुमीयत इति । पादाभ्यां गच्छति-पदगः 'नाम्नो गमः . खड्डो०' ।५।१।१३१। इति डप्रत्ययः, पादाभ्यामुपहतः-पदोपहतः 'कारकं कृता' ।३।१।६८। इति समासः । पादशब्दोऽन्न शरीरावयवविशेषपरो न तु श्लोकादिचतुर्थांशपरः यद्यपि शरीरावयवविशेष पदशब्दोऽप्यस्ति तथापि आज्यादिष पादशब्दप्रयोगनिवृत्त्यथं वचनम् ।।१५।। हिमहतिकाषिये पद् ।३।२०६६। हिमादावुत्तरपदे ये च प्रत्यये पादस्य पद् स्यात् । पद्धि मम् । पद्धतिः । पत्काषी । पद्याः शर्कराः ॥६६॥ 'पादयोहिमम्--पद्धिमम्, पादाभ्यां हतिराघातः पद्धतिः, पादौ कषतीत्येवं. शीलः, पादाभ्यां साधु कषतीति, पुनः पुनः पादौ कषतीति वा-पत्काषी ।

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576