________________
( २०४ )
न्यायात्किञ्चित् ज्ञापयति ‘संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्य ग्रहणं न तदन्तस्य इति, ज्ञापयति तेनात्राणग्रहणे लेखग्रहणं न स्यादिति तस्येह सूत्रे ग्रहणं सार्थकम् फलं चान्येषामणन्तानां ग्रहणं न भवतीति । 'खित्यनव्यया०' ।३।२।१११। इत्यादौ त्वसंभवात्तदन्तग्रहणम् । हृदयशब्दसमानार्थेन हृच्छब्देनैव सिद्ध हृदादेशविधानं लासादिषु हृदयशब्दप्रयोग- . निवृत्त्यर्थम् ॥६४॥
पदः पादस्याज्यातिगोपहते ॥३॥२॥६५॥ पादस्याज्यादावुत्तरपदे पदः स्यात् । पदाजिः। पदातिः । पदगः । पदोपहतः ॥६॥ पादाभ्यामजति अतति चेति ‘पादाच्चात्यजिभ्याम्' ।६।२०। इति औणादिके इणि पदाजिः पदातिः, अजिरतिश्च गमनाथौ धातू । अत एव
शात अघत्र' ।४।४।३। इति सत्रेण अजेर्वीः आदेशो न भवति । अयं भाव:-कानिचित्कार्याणि आचार्याः स्पष्टं कानिचिच्च स्वाचारेण शिक्षयन्ति तथा चाचार्येण आजिशब्दव्यव-हारादत्र तदभावोऽ नुमीयत इति । पादाभ्यां गच्छति-पदगः 'नाम्नो गमः . खड्डो०' ।५।१।१३१। इति डप्रत्ययः, पादाभ्यामुपहतः-पदोपहतः 'कारकं कृता' ।३।१।६८। इति समासः । पादशब्दोऽन्न शरीरावयवविशेषपरो न तु श्लोकादिचतुर्थांशपरः यद्यपि शरीरावयवविशेष पदशब्दोऽप्यस्ति तथापि आज्यादिष पादशब्दप्रयोगनिवृत्त्यथं वचनम् ।।१५।।
हिमहतिकाषिये पद् ।३।२०६६। हिमादावुत्तरपदे ये च प्रत्यये पादस्य पद् स्यात् । पद्धि मम् । पद्धतिः । पत्काषी । पद्याः शर्कराः ॥६६॥ 'पादयोहिमम्--पद्धिमम्, पादाभ्यां हतिराघातः पद्धतिः, पादौ कषतीत्येवं. शीलः, पादाभ्यां साधु कषतीति, पुनः पुनः पादौ कषतीति वा-पत्काषी ।