________________
( २०५ )
'अजातेः शीले' ।५।१।१५४॥ इति 'साधौ' ।५।१।१५५॥ इति 'बताभीक्ष्ण्ये' 1५।१।१५७। इति वा णिन् । पादौ विध्यन्ति पद्या:-शर्कराः, मार्गकङ्कणानि अत्र विध्यत्यनन्येन' ।७।१।८। इत्यनेन यः स्त्रीत्वादाप् ॥१६॥
ऋचः शसि ।।।।
ऋचां पादस्य शादौ शम्प्रत्यये पद् स्यात् । पच्छो गायत्री शंसति, ऋचइति किम् ? पादशः श्लोकं वक्ति। दिवःशपाठात् स्यादिशसि न स्यात् ? ऋचः पादान पश्य ॥६॥ अर्थवान् नियताक्षरपादो वेदभागः ऋक् । पादं पादं गायत्र्याः शंसतिपच्छो गायत्रीं शंसति 'संख्यैकार्थाद्' ।७।२।१५१॥ इति शस्, पूर्वसूत्रगृहीत पादशब्दाविन्नस्य पादशब्दस्य ग्रहणार्थमेव पृथक्सूत्रमारब्धम् । वाक्यगम्यस्य गायत्र्याः पादसंबन्धस्य वृत्ती निवृत्तत्वातू स्वाभाविक शंसनक्रियापेक्षं कर्मत्वं भवति.। अयं भाव:-वाक्ये गायत्र्याः पादेन सह सम्बन्धो गम्यते स च वृत्तो सत्यां वृत्तावन्तभूत: पादस्य पृथगनुपस्थितेः अन्वयितावच्छेदकरूपं हि पृथगुपस्थितिमत्वम्, तच्च निवृत्तमिति सम्बन्धार्थो निवृत्तः, सम्प्रति च शंसतीति क्रियायाः किमपि कर्मापेक्ष्येते, तच्चोपस्थितत्वाद् गायत्र्येव तस्या एवावयवरूपेण शंसनादिति तस्यामेव कर्मत्वं प्रयुज्यत इति शेषत्वाभावान्न तस्याः षष्ठयन्तत्वम् । पादशः श्लोक क्क्तीति-पादं पादं श्लोकस्य व्याचष्ट इत्यर्थः । शसो द्विशकारपाठाद् विभक्तिशसि द्वितीयाबहुवचने न भवति-ऋचः पादान् पश्य द्विशकारपाठेन हि विद्यमानशकारवत्त्वं प्रतीयते, शसः शकारश्चन विद्यमानोऽपितु अप्रयोगितयेत्संज्ञक इति नान पदादेशः । पदादेशे तु 'पद' इति रूपं स्यान्न तु पादानिति ।।६७।।
शब्दनिष्कघोषमिश्रे वा ।
।
शब्दादावुत्तरपदे पावस्य पद् वा स्यात् । पच्छब्दः । पादशब्दः ।