________________
( २०३ )
शतम् त्रयश्च शतं च त्रिशतम् । द्वाभ्यामधिका अशीतिः द्वौ च अशीतिश्च शीतिः । द्वौ वा यो वा द्वित्राः ||२||
चत्वारिंशदादौ वा | ३|१|१३|
द्वित्र्यष्टानां प्राक्शताच्चत्वारिशदादावुत्तरपदे यथासंख्यं द्वात्रasष्टा वा स्युः, अनशीति बहुव्रीहौ । द्वाचत्वारिंशत् । द्वित्वारिंशत् । त्रयचत्वारिंशत् । विचत्वारिंशत् । अष्टाचत्वारिंशत् । अष्टचत्वारिंशत् ॥६३॥
पूर्वेण नित्यं प्राप्ते विकल्पार्थमिदम् । द्वाभ्यामधिका. द्वौ च चत्वारिंशच्चेति वा द्वाचत्वारिंशत्, द्विचत्वारिंशत् । एवं त्रिभिरधिका, तयश्च चत्वारिंशच्चेति अष्टाभिरधिका, अष्ट च चत्वारिंशच्चेति त्रयश्चत्वारिशदित्यादि ||३||
हृदयस्य हृल्लासलेखाये | ३ |२| ६४
अस्य लासलेखयोरुत्तरपदयोरणि ये च प्रत्यये हृत् स्यात् । हृल्लासः । हृल्लेखः । हार्द्दम् । हृद्यः ॥ ६४ ॥
हृदयस्य लासः हृल्लासः, लसनं विलसनं लासः भावे घञ् हर्षातिरेकः, हृदयं लिखतीति हृल्लेख:, हृदये कमपि भावमाविष्करोतीति । भावः 'कोण' | ५|१|७२ | इत्यण् । अणुसन्निधानाल्लेखशब्दोऽप्यन्तो गृह्यते तेनं घञन्ते न भवति हृदयस्य लेख : हृल्लेखः । न च लासशब्दस्य सान्निध्यात लेखशब्दस्य घनन्तस्य ग्रहणं कुतो नेति वाच्यं पूर्वात् परबलीयस्त्वमिति परस्याणः सान्निध्यात् लेखशब्दस्याण एव ग्रहणमुचितमिति भावः । हृदयस्येदं-हादम् 'तस्येदम्' | ६ | ३ | १४२ । इत्यण् । हृदयस्प प्रिय: हृद्यः, हृदयस्य बन्धनो मन्त्रः हृयः वशीकरणमन्त्रः । अत्र प्रियार्थे बन्धनार्थे च 'हृद्यपद्य०' 1७1919१ | इति यप्रत्ययो निपात्यते । 'अण्' इत्येव सिद्ध लेख ग्रहणम् 'सिद्ध सत्यारम्भो नियमार्थ:' इति