________________
( २०२ )
द्वित्र्यष्टानां द्वात्रयोऽष्टाः प्राक्शतादनशीतिबहुव्रीही ।३।२। । एषां यथासंख्यमेते प्राक्शतात् संख्यायामुत्तरपदे स्युनत्वशीतो बहुव्रीहिविषये च । द्वादश । त्रयोविंशतिः । अष्टाविंशत् । प्राक्शतादिति किम् ? द्विशतम् । त्रिशतम् । अष्टसहस्रम् । . अनशीतिबहुव्रीहाविति किम् ? द्वयशीतिः । द्वित्राः ॥१२॥ म त्वशीतो बहुव्रीहिविषये चेति-अशीतिविषयं बहुव्रीहिविषयं चोत्तरपदं वर्जयित्वेत्यर्थः । द्वाभ्यामधिका दश, द्वौ च दश चेति वा दादशः । त्रयिधका त्रिश्च विंशतिश्चेति वा त्रयोविंशतिः, अष्टाधिका त्रिंशत् अष्टात्रिंशत् । अष्ट च त्रिंशच्च-अष्टचिंशत् । 'ननु चार्थे द्वन्द्वः०' ।३।१।११७।इति सूत्रेण एकविंशतिरित्यादौ संख्याद्वन्द्व समाहारेऽवयवानामनुद्भुतत्वात्पार्थक्येनप्रतीयमानत्वाद्भवत्वेकवचनं किन्तु संख्याद्वन्द्वे इतरेतरयोगेऽवयवानामनुद्भतत्वासार्थक्येन प्रतीयमानत्वादनेकत्वाच्च द्विवचनादिनैव भवितव्य-मिति कथमेकवचनमिति चेत्सत्यम्-यथा 'विंशतिघटाः' इत्यत्र विंशतिशब्दः संख्येयान् विंशतित्वसंख्यासहितान् घटानाचष्टे, तत्र घटानां बहुत्वेऽपि न तत्संख्यामपि तु विंशति त्वसं ख्यागतमेकत्वमनुसरति तत एकवचनान्तो भवति तथा 'एकविंशतिघंटाः' - इत्यत्रैक-विंशतिशब्द: संख्येयान् एकविंशतित्वसंख्यासहितान् घटाना चष्टे तत्र घटाना बहुत्वेऽपि न तत्संख्यामनुसरति किन्तु एकत्वविंशतित्वयोर्यः समुदायः एकविंशतित्वसंख्यात्मक: तद्गतमेकत्वमनुसृत्यैव संख्येयानाचष्टे इतीतरेतरयोगेऽप्येकवचनान्तो भवति । एवं 'आशताद् द्वन्द्वे०' इति लक्षणात् समाहारेऽपि स्त्रीलिङ्गो भवति । संख्याद्वन्द्वादन्यत्र संख्येयद्वन्द्वं तु संख्येयद्वन्द्वत्वात् संख्याद्वन्द्वादुच्यमानमेकत्वं न भवति, किन्तु संख्येयार्थकस्यैकशब्दस्य विशंतिशब्दस्य च प्रत्येकमेकत्वमिति मिलित्वा द्वयोद्वित्वं बहूनां बहुत्वमिति द्विवचनबहवचनान्तता भवति । यथा-एको देवदत्ताय दीयतां विंशतिश्चैत्रायेति-एकविंशती आभ्यां देहि । एवं षष्टिदेवदत्ताय दीयतां सप्ततिमैत्राय दीयताम्, अशीतिर्यज्ञदत्ताय दीयतामिति-षष्टिसप्तत्यशीतीरेभ्यो देहि । द्वयधिकं शतम् । द्वौ च शतं च द्विशतम् । त्र्यधिक