________________
( २०१ )
वहम् । पीलुर्वृक्षविशेषः तस्य वहं-पीलुवहं नाम वनम् । दारूणां वहम्दारुवहम् ॥७॥
शुनः ।३।२।६०।
अस्योत्तरपदे दीर्घः स्यात् । श्वादन्तः । श्वावराहम् ॥१०॥ शुनो दन्तः श्वादन्तः, श्वा । वराहश्च । बहुलाधिकारात् क्वचिद्विकल्पःशुनः पुच्छम् श्वापुच्छम् श्वपुच्छम् । क्वचिन्न-शुनो मुखमिव मुखं यस्यसश्वमुखः ॥१०॥
एकादश-षोडश-षोडषोढा-षड्ढा ।३।२।६१॥ एकादयोदशादिषु कृतदीर्घत्वादयोनिपान्त्यन्ते । एकादश । षोडश । षट्दन्ता अस्य षोडन् । षोढा, षड्ढा ॥१॥ एकेनाधिका एकाधिका दश । एकं च दश च वा-एकादश । अत्र पूर्वपदस्य दीर्घत्वं निपात्यते । पूर्वस्मिन् विग्रहेऽत्र तत्पुरुषसमासः, मयरव्यंसकादित्वाच्छा-कपार्थिवादिवदुत्तरपदलोपश्च । परस्मिन् विग्रहे 'चार्थद्वन्द्व:०' ।३।१।११७। इति सूत्रेण द्वन्द्वसमासः । षडधिका दश, षट् च दश च वा षोडश । अत्र षषोऽन्तस्योत्त्वं दशशब्ददकारस्य डत्वं च निपात्यते । षड .दन्ता अस्य-षोडन् । अत्र दन्तशब्दस्य 'वयसि दन्तस्य दतः' ।७।३।१५। इति दत्रादेशे कृते दस्य डत्व षषोऽ न्तस्योत्व च निपात्यते । 'ऋददितः' 1१।४।७०। इत्यनेन नोन्तः ‘पदस्य' ।२।१८९। इत्यन्त्यतकारस्य लुक । षड्भिः प्रकारैः-षोढा-षड्ढा,अत्र धाप्रत्यये षषोऽ न्तस्य वोत्त्व धकारस्य त् तृ-नित्यं ढत्त्वम् । अत्र षोढा विभजतीत्यत्र तृयीयान्तेन विग्रहस्योपयोगात् तृ-तीयान्तेन विग्रहः कृतः । अन्यत्र 'द्रव्यमेकं षोढा कुरु' इत्यादौ यथासंभवं द्वितीयाद्यन्ते-नापि विग्रहः क्रियते । अत्र 'संख्याया धा' ।७।२।१०४। इति सूत्रेण धाप्रत्ययः । 'प्रकारे धा' ७२।१०२। इत्यस्य प्रकरणे पठितत्वादत्र सम्भवत्स्याद्यन्ताद्विग्रहः क्रियते ॥११॥