________________
( २०० )
वीकाशः । नामिनइति किम् ? प्रकाशः ॥७॥ नाम्यन्तस्योपसर्गस्येति-'अनवर्णा नामी ।१।१६। इति सूत्रेण अवर्णवर्जानामौदन्तानां स्वराणां नामिसंज्ञा विहिता तथाप्यत्र 'ए ऐ ओ औ वर्णानां स्वत एव दीर्घत्वेन दीर्घविधानानर्थक्यात् लु कारान्तामेवेहोद्देश्यत्वं, तत्रापि ऋकारान्त-लकारान्तयोरुपसर्गस्या-श्रुतत्वात् परिशेषादिकाराकारयोरेव ग्रहणम् । इकारोकारान्तस्योपसर्गस्येति पर्यवस्यति । निकाशते निकाश्यते इति वा नीकाशः । विकाश्यत इति वीकाशः । बहुलाधिकारात् विकाश इत्यपि । प्रकाशत इति प्रकाशः । 'काशे' इति सामान्यनिर्देशेऽपि घान्ते पूर्वसूत्रण विधानात् अजन्त एवायं विधिरित्याहअजन्त इति-'अच' ।५।१।५४। इति सूत्रणाच ॥७॥
दस्ति ।३।२।८८॥ दो यस्तादिरादेशस्तस्मिन्परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् । वोत्तम् । दइति किम् । वितीर्णम् । तीति किम् । सुदत्तम् यीतम् । निदीयते स्म, विदीयते स्म-नित्तम्, वित्तम् । नि-विपूर्वाद् दासंज्ञकात् क्तः' 'अवौ दाधौ दा' ।३।३।५। इति सूत्रेण दासंज्ञा । 'स्वरादुपसर्गादस्ति कित्यधः ।४।४।।। इति 'दा' इत्यस्य 'त्त' इत्यादेशः । सुदीयते स्मेत्यर्थे ते 'निविस्वन्वात्, ।४।४।८। इत्यनेन विकल्पाद् दत्' ।४।४।१०। इति सूत्रेण ददादेशः ।।८८॥
अपील्वादेवहे ।३।२।८। पोल्वादिवर्जस्य नाम्यन्तस्य वहे उत्तरपदे दीर्घः स्यात् । ऋषीवहम् । मुनीवहम् । अपील्वादेरिति किम् । पोलुवहम् । दारुवहम् ॥६॥
ऋषीणां वहम् ऋषीवहम् । ऋषीणां धारकमित्यर्थः । मुनीनां वहम् मुनी..