________________
. ( १६६ )
नितरां रोचते-नीरुक, ऋति पीडां सहते-ऋपीषट् । भीरुष्ठानादयः' ।२।३।३३। इति षत्वम् । जलं सहते-जलासट् । परितनोतीति-परीतत् । 'गमा क्वौ' ।४।२।५८। इति सूत्रेण नलोपः, 'ह्रस्वस्य तः पित्कृति' ।४।४।११३। इति सूत्रण तोऽन्तः । श्वाविदृतीषज्जलासडित कारकस्योदाहरणानि इतरे गतेः । इह क्विग्रहणादन्यत्र धातुग्रहणे तदादिविधिलभ्यते, तेन 'अयस्कृतम्, अयस्कृत इत्यादौ सकारसिध्यति अन्यथा अयस्कृदित्यश्रव स्यात् । अयं भावं.-'अतः कृकमि०' ।२।३५॥ सूत्र कृधातुनिदिष्ट:, तस्य स्वरूपमात्रस्य ग्रहणे 'अयस्कृद्' इत्यत्र व स्यात् नतु अयस्कृतम्, अयस्कारः' इत्यादी क्ताऽण्प्रत्ययान्ते करोतो। प्रकृतज्ञापने तदादिविधिलाभे तू करोत्यादौ शब्दे परे सूत्रस्य प्रवृत्त्या 'अयस्कृतम्' इत्यादावपि सत्त्वम् भवति ॥८५॥ .
घञ्युपसर्गस्य वहुलम् ।३।२।८६॥ घनन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घः स्यात् । नोक्लेदः । नीवारः । बाहुलकात् क्वचिदवा। प्रतीवेशः । प्रतिवेशः । क्वचिन्न, विषादः । निषादः ॥८६॥ निक्लेदनं नीक्लेदः निपूर्वाक्लिद्यतेपन । नियतैत्रियते-नीवार: । निपूवाद्वृणोतेः 'नेषुः ।५।३।७४। इति घन । प्रतिवेशनं, प्रतिविशन्त्यस्मिन् वेति प्रतीवेशः, प्रतिवेशः । गृहसमीपस्थगृहान्तरं प्रतीवेश-प्रतिवेशशब्दाभ्यामाख्यायते। विषदनं विषीदति मनोऽस्मिन् वा विषादः । विपूर्वकात्सीदतेर्भावेऽधिकरणे वार्थे घन । निषीदति मनः पापं वा यस्मिन् निषादः । अधिकरणे घन । पूर्व विग्रहेण निषादनामा स्वरः परेण च म्लेच्छजातिविशेष उच्यते ॥८६॥
नामिनः काशे ।३।२।१७।
नाम्यन्तस्योपसर्गस्याजन्ते काशे उत्तरपदे दीर्घः स्यात् । नीकाशः।