________________
( १९८ )
वहतुं शक्यते। लम्बकर्ण इति-लम्बौ कणो यस्येति विग्रहः, कर्णानां लम्बत्वं स्वामिनः परिचायकं नास्ति किन्तु चिह्नरूपमेव । तथा चात्र केवलस्य चिह्न-वाचिनः कर्णशब्दे उत्तरपदे दो! न भवति, किन्तु स्वामिचिह्नवाचिनः । यदि केवलं स्वामिशब्दोपादानं स्यात्तहि वाहनस्य कर्णः वाहनकर्ण इत्यत्र कर्णनिरूपितं स्वामित्वं वाहनेऽसित इत्यतिव्याप्तिः स्यात् । विष्टादिवर्जस्येति-'विष्टादिपर्युदासो व्यर्थः स्याच्च । 'विष्ल कोव्याप्तौ' विष्टं व्याप्तं (चिह्न) कर्णे यस्य स विष्टकर्णः । अशौटि त्याप्तौ अष्टं व्याप्तं (चिह्नकर्णे यस्य स-अष्टकर्णः । विष्टशब्दो व्याप्त्यर्थकाद्विषः, अष्टशब्दोऽपि व्याप्त्यार्थकादश्नोतेः वते सिद्धः। पञ्चशब्दसाहचर्याद् संख्यावाचकस्याऽप्यष्टशब्दस्य ग्रहणं तत्पक्षे अष्टौ (चिह्नानि) कर्णे यस्येत्यादिविग्रहः । एवं पञ्च(चिह्नानि) कर्णे यस्य स पञ्चकर्णः,भिदेश्छिदेश्च क्त भिन्न-छिन्न शब्दौ, तावपि स्वामिविशेषपरिचायकचिह्नवाचिनौ, स्वामिविशेषपरिज्ञानाय भेद-छेदो विशेषरीत्या क्रियेते, भिन्नं (चिह्न) कर्णे यस्येति, भिन्नौ च्छिन्नौ वा कणौ यस्येति. वां विग्रहे भिन्नकर्णः, छिन्नकर्णः । छिद्रं कर्णे यस्य स छिद्रकर्ण :। स्रव :(स्र वाकार चिह नं) कर्णे यस्य स स यकर्णः । स्वस्तिक:-मङ्गलसूचकचिह्नविशेषः, स कर्णे यस्य स स्वसितककर्णः ॥४॥
गतिकारकस्य नहितिवृषिव्यधिरुचिसहितनौको ।३।२।२५॥ गतिकारकयोर्नह्यादौ बिन्ते उत्तरपदे दीर्घः स्यात् । उपानत् । नीवृत् । प्रावृट् । श्वावित् । नोरुक् । ऋनीषट् । जनासट् परीतत् ॥५॥ उपनह्यति पादम् उपानत् । उपनातीति कर्तरि विग्रहः नहेर्दिवादित्वात् । उपनाते परिधीयते पादयोः बध्यते वा इति कर्मणि विग्रहः, उभयथापि वाच्यस्य पादत्राणस्य प्रतोतिः । 'नहाहोर्धतो' ।२।१।८५। इति सूत्रेण हकारस्य धकारः । नियतं वर्तन्तेऽस्यां नोवत् देशः इत्यर्थः । प्रवर्षन्त्यस्यां मेधाः प्रावृट्। यः श्वानं विध्यतीति-श्वावित् पशुविशेषः शुनः।३।३।६३।इति दीर्घः,