________________
( १९७ )
मिति चकारोपादानमावश्यकम् । किञ्च बवयोरैक्यमिति बलशब्दोऽपि वलशन्दो भवतीति ध्येयम् ।।२।।
चितेः कचि ।३।।३।
चितेः कचि दीर्घ स्यात् । एकचितीकः ॥३॥
चितिशब्दोऽनेकार्थः चिनोतेः क्तिप्रत्यये साधुः, समूहे च वर्तते, इष्टकादिसमूहविषये च निरुढ-लक्षणया वर्तते । एका चितिरस्मिन एकचितीकः । इति विग्रहवाक्ये चितिशब्दस्तत्तत्समूहविशेषवाचक एव विज्ञायते 'शेषाद्वा' ।७।३।१२५॥ इति सूत्रेण कच् ।।३।।
स्वामिचिह नस्याऽविष्टाऽष्टपञ्चभिन्नछिन्नच्छिद्रसवस्वस्तिकस्य कर्णे ।३।२।४। स्वामी चिह्नयते येन तद्वाचिनोविष्ठादिवर्जस्य कर्णे उत्तरपदे दीर्घ स्यात् । दानाकर्णः पशुः । स्वामिचिह्नस्येति किम् ? लम्बकर्णः। विष्टादिवर्जनं किम् ? विष्टकर्णः । अष्टकर्णः ॥४॥
स्वामी चिह्नयते परिचीयते येन चिह्न लक्षणम् स्वामिनश्चिह्नमिति षष्ठी तत्पुरुषः तथा च स्वामिपरिचायकस्य पूर्वपदस्येति फलति । दात्रमिव . दात्रम्, दात्रं चिह नं कर्णे यस्य स दात्रमिव वा कणौ यस्य स दानाकर्णः
पशुः । दात्र लोहादिनिमित्त काष्ठादिद्विधाकरणसाधनम् तन्न पश्वादीनां कर्णे स्वामिविशेषपरिचायकत्वेन तिष्ठत्यपि तु तदाकारेण रोमदाहादिचिहमेव तथा च न तद्दात्रमपि तु तदाकारकत्वात् तत्सदृशम् । लक्षणया तेन शब्देन व्यवहारः । दानमिव कणौं यस्येति विग्रहान्तरसम्भावनाप्रदर्शन मात्रम् न तु स्वामिचिह्नत्वसाधकम् न हि प्राकृतिकेन दावाद्याकारेण चिह्नन स्वामिविशेषः प्रतीयते कृते तु संकेत कश्चिदित्थंभत: पशुः स्वामिविशेषसम्बन्धितया परिचीयते, अपि तु न तत्साधारण्येन चिह्नतयां व्य