________________
( १९६ )
पूर्वसूत्रेण सहैकयोगाकरणाद् नाम्नीति निवृत्तम् । विश्वं वसु अस्य-विश्वावसुः । विश्वशब्द: इह सर्वविधार्थः, सर्वप्रकारं वस्वस्येत्यर्थः । गावो भूमिहिरण्यमिति वसुनस्त्रयः प्रकाराः तत्र गोपदं सर्वविधपशुपरम्, हिरण्यपदं सर्वविधाकुप्यधनपरम्, भूमिपदं च भूमि-तत्संभवसर्वविधान्नादिपरम्, तथा च यस्यैतत्त्रितयान्तर्गन्तं सर्व प्रकारं वसु भवेत् स एव विश्वावसुःन तु सकलजगद्धनस्वामी, तादृशस्य कस्यचनाभावात् । विश्वस्मिन् राजते सर्वत्र दीप्यते स विश्वाराट्। 'यजसज०।२।१।८१।इति षत्वम,षस्य डः । राडिति विकृतनिर्देशादिह न भवति-विश्वराजौ, विश्वराजः ।।१।।
वलच्यपित्रादेः ।३।२।१२।
वलचप्रत्यये पित्रादिवर्जानां दीर्घः स्यात् । आसुतीवलः । अपिश्रादेरिति किम् । पितृवलः । मातृवलः ॥८२॥ ,
आसुतिः सुरा साऽस्यास्तीति आसुतीवलः । कृष्यादित्वात् 'कृष्यादिभ्यो बलच' । इति वलच् । नन्वत्र 'वलचि' इति कथं 'वले' इति कथनेनापीष्टसिद्धिर्भविष्यतीति चेत्सत्यम्-वलजित्यत्र चकारः प्रत्ययत्वज्ञापनाय, तेन कायबलमित्यादौ वलशब्दे परे दीर्घो न भवति । न च 'बले' इत्युपादानेऽपि 'प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्' इति न्यायात्प्रत्ययस्यैव ग्रहणं भविष्यतीति चकारः पुनव्यं र्थ इति वाच्यम् यत्र प्रत्यययाप्रत्यययोरु-भयोः सामान्येन ग्रहणप्राप्तं तत्रैन्न्यायप्रवृत्तिरिह तु उत्तरपदे'इत्यनुवृत्तमित्युत्तरपद भूतम् एवं वलशब्दे परे इत्यर्थो गम्येत,इति यत्रोतरपदभूतो वलशब्दस्तत्रैव दीर्घःस्यात् 'आसुतीबल' इत्यादौ तु न स्यात् । नन्वन केचित् 'कागबलम्' इत्यादी बलशब्दः न तु वलशब्दः इति भवद्दत्ताऽऽपत्तिरसङ्गतेति 'वलेऽपित्रादेः' इति सूत्रेणाऽपि नापत्तिरिति चेदत्र केचिद् यद्यपि वलधातोरचि वलत इति वलः' इति साधयितु शक्यते संभवति च तस्य क्लीबताऽपि तथापि तादशप्रयोगस्याप्रसिद्धत्वेन न कायबलमित्यादी संभव इति स्पष्टार्थमेव चकारोपादानमित्याहुः । वस्तुतस्तु अच्प्रत्ययान्तो कलशब्द: स्व. यमाचार्येण धातुपारायणे साधित इति तदप्रसिद्धिरिति कथनं नोचित