SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ( १६५ ) स्तृणजातयः ये सन्त्यस्यां सा शरावती | वंशाः वेणवः ते सन्त्यस्यां सा वंशावती । एतानि नदीविशेषनामानि । शरादिराकृतिगणः | अजिरमङ्गणं तदस्त्यस्यामिति विग्रहः । हिरण्यवतीति एते नदीविशेपस्य नाम्नी । अजिरादिराकृतिगणः । आकृत्यैव गण्यन्ते परिचीयन्ते इत्याकृतिगणा अजिरादय इति भावः ॥ ७८ ॥ | ऋषौ विश्वस्य मित्र | ३ |२|७६ । ऋषावर्थे मित्र उत्तरपदे विश्वस्य नाम्नि दीर्घः स्यात् । विश्वामित्रः ॥७६ 1 नाम्नीत्यनुवर्तनात् विश्वं मित्रमस्य विश्वमित्रो मुनिः इत्यत्र दीर्घो न भवति । अयं भावः - यद्यपि मुनेरहिंसायां प्रवृत्तस्य निवै रित्वाज्जगदेव तस्य मित्रमत्रि सर्वोऽपि मुनिविश्वमित्रः तथापि नाम्नीत्यनुवर्तनादत्र न भवति ॥७६॥ नरे | ३|२|८०| नरे उत्तरपदे नाम्नि विश्वस्य दीर्घः स्यात् । विश्वानरः कश्चित् ||८०| योगविभागाद् ऋषाविति न सम्बध्यते । विश्वे नरा अस्य - विश्वानरो नाम कश्चित् । विश्वशब्दोऽत्र सर्वपर्यायः ॥ ८० ॥ वसुटोः | ३|२८| अनयोरुत्तरपदयोविश्वस्य दीर्घः स्यात् । विश्वासुः, विश्वाराट् ॥ ८१ ॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy