________________
( १६४ )
'वणे' इति पदं कृतणत्ववनशब्दस्यानुकरणम् । कोटरावनमित्यादि-नामत्वादिह वाक्यं न भवति, प्रक्रियानिर्वाहाय-'कोटर-आम्-वन-सि' इत्यलौकिकं वाक्यमवधारणीयम् । षष्ठीसमासः पूर्वपदस्थान्नाम्न्यगः' ।२।३।६४। इत्यनेन णत्वम् । एवं मिश्रकावणादीनामपि सिद्धिज्ञया । एते सर्वे नरकविशेषाणां वाचका इति प्राञ्चः । 'पूर्वपदस्थान्नाम्यगः' ।२।३।६४। इत्यनेन णत्वे सिद्ध कृतणत्वस्य वनशब्दस्य निर्देशो नियमार्थः, तेन 'पूर्वपदस्था-नाम्न्यगः' ।३।२।७६। इति सूत्रेण वनशब्दस्य णत्वमाकारसंनियोग एव । भवति । तस्मात्-कुबेरवनम् इत्यादौ संज्ञायामपि णत्वं न भवति ॥७६।।
अञ्जनादीनां गिरौ ।३।२।७७।
एषां गिरावुत्तरपदे नाम्नि दीर्घः स्यात् । अञ्जनागिरिः । कुक्कुटागिरिः ॥७॥ अजनो वृक्षविशेषः, तेषां (प्रभव:) गिरिः अञ्जनागिरिः, जन्यजनकभावसम्बन्धे षष्ठी। तदन्तेन गिरिशब्दस्य समासः । कुक कूट: पक्षिविशेषः तेषां (प्रभवः) गिरिः कुक्कुटागिरिः । बहुवचनमाकृतिगणार्थम् । एवमाकृतयोऽ न्येऽ पि गणे बोध्या इति ज्ञापनार्थमित्यर्थः ॥७७॥ ।
अनजिरादिबहुस्वरशरादीनां मतौ ।३।२।७८। अजिरादिवर्जबहुस्वराणां शरादीनां च मतौ प्रत्यये नाम्नि दीर्घः स्यात् । उदुम्बरावती। शरावती । वंशावती । अनजिरादीति किम् । अजिरवतो । हिरण्यवती ॥७॥ अनजिरादिशब्दो बहुस्वरमात्रस्य विशेषणं संभवातु, न शरादीनामसंभवात्तदाह-अजिरादिवर्जबहुस्वराणाम् । उदुम्बरा वृक्षविशेषा ते सन्त्यस्यां सा उदुम्बरावती 'तदनास्ति' ।६।२।७। इति चतुरर्थ्यान्तर्गतार्थे 'नद्यां मतुः' ।६।२।७२। इति मतुः 'नाम्नि' ।२।१६५। इति मस्य वः, स्त्रियां ङीः । शरा