________________
( १९३ )
शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च ।
वाक्यस्य शेषाद्विवृत्तेर्वदन्ति, सान्निध्यतः सिद्धपदस्य वृद्धाः ।। अस्यार्थस्तु-व्याकरणम् =शब्दव्युत्पादकशास्त्रम् । उपमान-सादृश्यज्ञानास्मकप्रमाणम्, कोशः अभिधानचिन्तामण्यादिः, आप्तवाक्यं प्रयोगहेतुभूतयथार्थज्ञानवत्पुरुषोच्चरितवाक्यम् । यथा-'कोकिल: पिकपदवाच्यः' इत्याप्तवाक्येन 'पिक' पदस्यार्थमाजानानस्य बालस्य 'पिक' पदस्य कोकिलात्मकेऽ र्थे शक्तिग्रहो भवति । व्यवहार:-'घटमानये' त्यादिशब्दप्रयोगात्मकस्तेनापि गोपदार्थमजानानस्य बालस्य शक्तिग्रहो भवति । यथा प्रयोजकवद्ध ने उपदेष्ट्रवद्धन . गूर्वादिना 'घटमानय' इति प्रयोज्यवृद्धाय इत्युक्तम्, तद्वाक्यं श्रुत्वा समीपस्थ: घटादिपदानां घटाद्यर्थेऽ गृहीतशक्तिको बाल: प्रयोजकवद्धोच्चरितवाक्यं श्रुत्वा प्रयोज्यवृद्धस्य गमनं घटानयनं च दृष्ट्वा घटानयनक्रिया ‘घटमानय' इतिपदज्ञानजन्यशाब्दबोधजन्येत्यनुमिनोमि। वाक्यस्य शेष:-प्रकृतवाक्यातिरिक्त वाक्ये प्रकृतवाक्यार्थबोधोपयोगी पदकदम्बोऽर्थवादाद्यात्मक:, विवृत्तिः-विवरणम्-पर्यायादिकम्, सिद्धपदस्य सान्निध्यम्-प्रसिद्धपदस्यसन्निधिः एतान्यष्टौ शक्तिज्ञानस्य प्रयोजकानि भवन्तीति वृद्धाः मन्यन्ते ।।७४।।
नाम्नि ।३।७५॥
अष्टन उत्तरपदे संज्ञायां दीर्घः स्यात् । अष्टापदः कैलाशः । नाग्नीति किम् । अष्टदंष्ट्रः ॥७॥ 'अष्टौ पदानि स्थानानि यत्र सोऽष्टापद: कैलासः । कैलासपर्वतस्य संज्ञा । अष्टो दंष्ट्रा यस्य सोऽष्टदंष्ट्रः ।।७५।।
कोटरमिश्रकसिधकपुरगसारिकस्य वणे ।३।२।७६। एषां कृतणत्वे वने उत्तरपदे संज्ञायां दीर्घः स्यात् । कोटरावणम् । मिश्रकावणम् । सिध्रकावणम् । पुरगावणम् । सारिकावणम् ॥७६॥ ..