________________
( १९२ )
।२।१।१०८। इत्यकारलोपो न कृतः । अत्र दीर्घात्वयो रूपे विशेषाभावाप्रथमोपस्थितदीर्घमात्रविधानेन रूपसिद्धिसम्भावनाया-मात्त्वं नानुवर्तितमित्याह-दीर्घः स्यादिति । अष्टसु कपालेषु संस्कृतम् अष्टाकपालं हविः । 'संख्या समाहारे च द्विगुश्चा-नाम्न्ययम्' ।३।२।६६। इति द्विगुसमासे 'संस्कृते भक्ष्ये' ।६।२।१४०। इयणि 'द्विगोरनपत्ये यस्वरादेल बद्विः' ।६।१।२४। इति लुपि 'अष्टन् कपाल'इति स्थिते नलोपे सत्यनेनान्त्यस्य दीर्घः । यदि च नलोपस्य दीर्घरूपे परविधावसत्त्वान्नकारस्यैवान्त्यत्वमिति कथं दीर्घ इत्याशङ्कयते, तदा ‘अन्त्यबाधेऽन्त्यसदेशस्य , उपान्त्यस्य) इति न्यायादुपान्त्यस्याकारस्य दीपे नलोपे च रुपसिद्धिया । अष्टानां समाहार:-अष्टकपालम् । पात्रादित्वात् स्त्रीत्वाभावः । अष्टसु पात्रेषु संस्कृतं हविः अष्टपात्रम्, पूर्ववत्समासप्रत्ययादिः ।।७३।। .
.
गवि युक्त ।३।२।७४। युक्तथे गव्यत्तरपदे ऽष्टनोदीर्घः स्यात् । अष्टागवं शकटम् । युक्त इति किम् । अष्टगुश्च त्रः ॥७४॥ अष्टागवं शकटसिति-अष्टौ गावो युक्ता अस्मिन्निति त्रिपदे बहुव्रीही कृते उत्तरपदे परे द्वयोढिगुः ‘गोस्तत्पुरुषात्' ।७।३।१०५ इत्यट्समासान्तः, तत्र दीर्घत्वेन युक्तार्थसंप्रत्ययाद् गतार्थत्वाद् युक्तशब्दस्य निवृत्तिः तथा च युक्तशब्द विनाऽपि तदर्थप्रतीतिः प्रयोगस्वाभाव्यात् अथवा अष्टौ गावः समाहृताः अष्टानां गवां समाहारः इति वा समाहारेऽ थे द्विगुः, तत्र साहचर्यादुपचारादष्टगवेन युक्तं शकटमप्यष्टागवमुच्यते यत्र दीपस्तत्र वोपचार: स दोघस्तस्योपचारस्य द्योतकः । अष्टगुश्चैत्र इति-अष्टौ गावो यस्येत्यर्थे वहुव्रीहिः 'गोश्चान्ते' ।२।४।६६। इति सूत्रेण ह्रस्वः । अत्र चैत्रपदसानिध्यात् स्वस्वामिभावसम्बन्धः प्रतीयते न तु युक्तार्थप्रतिप्रत्तिरित्यत्र दीर्घो न भवति । यद्यपि अष्टौ तुरगा यस्मिन् सोऽ अष्टतुरगो रथ इत्यादौ रथपद-सान्निध्यात् युक्तार्थप्रतिपत्तिरस्ति तथापि तत्र गव्युत्तरपदाभावान्न भवति प्रसिद्धपदसान्निध्यादपि शक्तिग्रहो भवति-यदाह- .