________________
( १९१ )
'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति न्यायात् पूर्वसूत्रेण महती. "शब्दस्यापि डादेशो भवति तत्रानेन संकोचः क्रियते । महतीप्रियः इतिमहती प्रियाऽस्येति बहुव्रीहिसमासे 'परत: स्त्री पुंवत्' ।३।२।४८। इति सत्रेण प्राप्तस्य पवद्भावस्य 'नाप्रियादो' ।३।२०५३। इत्यनेन निषेधः ॥७॥
इच्यस्वरे दीर्घआच्च ३।२।७२।
इजन्तेऽस्वरादावुत्तरपदे पूर्वपदस्य दीर्घत्वम् आच्च स्यात् । मुष्टीमुष्टी । मुष्टामुष्टी । अस्वरइति किम् । अस्यसि ॥७२॥ इच्प्रत्ययः ‘इज् युद्ध' ।७।३।१७४। इति सूत्रेण विधीयते । दीर्घत्वमाच्वेतितथा च दीर्घाऽऽ-कारयोः पाक्षिकत्वं लभ्यते, सह विधाने एकस्य विधानं व्यर्थमेव स्याद् । मुष्टिभि-श्च मुष्टिभिश्च मिथः प्रहत्य कृतं युद्ध मुष्टीमुष्टि, मुष्टामुष्टि । दीर्घत्वाऽऽ-त्वयोरकारान्ता-दन्यत्र विशेषः । अयं भावःयद्यप्य-कारान्तस्य दीर्घ आकारान्तादेशे वा विशेषो नास्ति तथाप्यन्यस्वरान्तेषु विशेषस्य सत्त्वात्त-द्विधानमप्यावश्यकमिति । असिना आसीना मिथः प्रहृत्य प्रवृत्तं युद्धम् अस्यसि । दीर्घः 'स्वरस्य ह्रस्वदीर्घप्लुता' इति न्यायात् . स्वरान्तानामेव भवति । दीर्घसाहचर्यादात्वमपि स्वरान्तानामेव भवति .. तेनेह न भवति-दोष्णोर्दोष्णोग हीत्वा व्यासक्तमिति दोर्दोषि ॥७२॥ ----
हविष्यष्टनः कपाले ।३।२।७३। हविष्यर्थे कपाले उत्तरपदेऽष्टनोदीर्घः स्यात् । अष्टाकपालं हविः । हविषीति किम् ? अष्टकपालम् । कपालइति किम् ? अष्टपात्रं हविः ॥७३॥ देवोद्देश्यत्वेन त्यज्य-मानं द्रव्यं हविः । 'अष्टनः' इति स्वार्थबहुत्वसंख्याधायित्वा-भावान्न बहुवचनम्, स्वरूपभङ्ग-भयेन चात्र 'अनोऽस्य'