SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ( १६० ) हस्तः, राजग्राह्य ं द्रव्यं वा महतः करः इति विग्रहः । कर एव कार इति स्वार्थिकेऽणि कारशब्दस्यापि 'एकदेशविकृतमनन्यवत्' इति न्यायेन ग्रहणम् भवति तेन महाकार, महत्कार इत्यपि । घासो बालतृणम्, महाघास इति महतः घास इति विग्रहः । विशिष्टः पार्थक्येन गणनाहं : महतां मध्ये विशिष्ट इत्यर्थे महाविशिष्ट इति ॥ ६८ ॥ 1 स्त्रियाम् ||३|२|६६ | स्त्रीवृत्तेर्महतः करादावुत्तरपदे नित्यं डाः स्यात् । महाकरः । महाघासः । महाविशिष्टः ॥ ६६ ॥ महत्या करः -- महाकरः एवं महाघासः, महाविशिष्ट: । ' नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति न्यायात् पूर्वेणैव सिद्ध नित्यार्थमिदम् सूत्रम् ||६|| जातीयैकार्थेऽच्वे | ३|२|७०८ महतोऽच्वन्तस्य जातीयरि ऐकायें चोत्तरपदे डाः स्यात् । महाजातीयः । महावीरः । जातीयैकार्थ्य इति किम् ? महत्तरः । अच्वेरिति किम् ? महदुद्भूता कन्या ॥७०॥ महान् प्रकारोऽस्य स महाजातीयः । महान् चासो वीरश्च महावीरः । अमहती महती सम्पन्ना महद्भूता कन्या । 'च्वी क्वचित्' | ३ |२| ६० | इति सूत्रेण पुंवद्भावः ॥७०॥ न पुवन्निषेधे | ३|२|७१ महतः पुम्वन्निषेधविषये उत्तरपदे डा न स्यात् । महतीप्रियः ॥ ७१ ॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy