________________
( १८६ )
एकस्वरस्य ङन्तस्य तरादौ प्रत्यये ब्रु वादौ चोत्तरपदे स्त्र्येकार्थे वा ह्रस्वः स्यात् । स्त्रितरा । स्त्रीतरा । ज्ञितरा । ज्ञीतरा । ज्ञितमा । ज्ञीतमा जिब्रुवा । ज्ञीब्र वा, एकस्वराणामिति किम् ? कुटीतरा ॥ ६६ ॥
बहुवचनात् परत: स्त्रीति निवृत्तम्, सामान्येन ङयन्तस्यैकस्वरस्यानेन विधीयते । स्त्रितरेति-स्त्यायतोऽस्यां शुक्रशोणिते इत्यर्थे स्त्यायते रौणादिha प्रत्ययेन 'स्त्र-शब्दो निष्पद्यते, ततो ङयां स्त्रीति । ततः तरप्रत्ययः । जितरेत्यादि जानातीति ज्ञः तस्य भार्या इत्यर्थे धवयोगे ङीः ततः तरबादिः । कुटीतरेति- परतः स्त्रीत्वा भावात् 'य' | ३ |२| ६४ | इत्यापि नित्यं ह्रस्वो न भवति ॥ ६६ ॥
ऊङः ।३।२।६७ |
ऊन्तस्य तसदौ चोत्तरपदे स्त्र्येकार्थ्ये वा ह्रस्वः स्यात् । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा । कब्रुबा । कद्रब्रुवा ॥ ६७॥
ब्रह्मबन्धुतरेति ब्रह्मा बन्धुरस्येति व्युत्पत्त्या ब्रह्मबन्धुशब्दो विप्राचाररहिते निन्द्यकर्मकारिणि जात्या बिप्रे प्रयुज्यते ततः स्त्रियाम् 'उतोऽप्राणिन० ' | २|४| ६३ । इत्युङ्, अतिशयेन ब्रह्मबन्धूः ब्रह्मबन्धुतरा । अत्र विकल्पेनानेन ह्रस्वो भवति । कद्रब्रुवेति — कद्र शब्दः नागमातृवाची, निन्द्यसमा - सोऽयम् ॥६७॥
महतां करघासविशिष्टे डाः | ३ |२|६८ |
करादावुत्तरपदे महतो डा वा स्यात् । महाकरः । महत्करः । महाघासः । महद्द्यासः । महाविशिष्टः । महद्विशिष्टः ॥ ६८ ॥
वैयधिकरण्ये अयं विकल्प, सामानाधिकरण्ये तु परत्वाद् 'जातीयैकार्थेऽच्चे:' | ३|२|७० | इति सूत्रेण नित्य एव विधिः । महाकर इति करो