________________
(955)
कर्मधारयनिमित्तश्च प्राप्नोति स कथं न क्रियते इति चेत् सत्यम् परत्वात् यथाप्राप्तं पुंवद्भावमयं बाधते । अयमाशयः - दर्शनीयत रेत्याबन्तेषु, विद्वद्वृन्दारिकेत्यादिषु च पुंवद्भावः सावकाशः । नर्तकिरूपेत्यादी कोपान्त्यत्वनिमित्तकपुं वावप्रतिषेधात्प्रकृत- सूत्रं सावकाशम्, गौरितरेत्यादिषु तुभय प्राप्तिः तत्र 'स्पर्धे' | ७|४| २१६ | इति परिभाषया परत्वादयमेव विधिरिति । 'नवैकरस्वराण्यम्' | ३ | २|६६ । इत्युत्तरत्र वचनादनेकस्वरस्यै - बायं विधिः ||६४ ||
भोगवद्गौरिमतोर्नाम्नि | ३ |२| ६५ |
अनयोर्यन्तयोः संज्ञायां तरादिषु प्रत्ययेषु ब्रुवादौ चोत्तरपदे एकार्थे ह्रस्वः स्यात् । भोगवतितरा । गोरिमतितमा । भोगवतिरूपा । गौरिमतिकल्पा । भोगवतिब्रुवा । गौरिमतिचेली । भोगवतिगोत्रा । गौरिमतिमता । भोगवतिहता । नाम्नीति किम् ? भोगवतितरा । भोगवत्तरा । भोगवतीतरा ॥ ६५ ॥
नाम्नीति भोगवद्गौरिमतोरेव विशेषणं न तु तत्सहित वृत्तेः तेन सह सूत्र - स्थपदस्यास्य सम्बन्धासम्भवात् । भोगाः सर्पफणाः सर्पकञ्चुका वा सन्त्य - स्याम सा भोगवती । यद्यपि 'अन० | ३|२८|इति दीर्घे - भोगावतीति भवति, प्रकृतसूत्रे ह्रस्वनिर्देशादेव भोगवतीति ह्रस्वमध्यः पाठः । गौरशब्दात् गौरादित्वान्ङीः ततो मतौ स्त्रियां गौरिमतीति । नदीविशेषनाम्नी एते । न च नदीविशेषे कुतः फणानां सत्ता, ते हि सर्पाणामेव शरीरे स्युरिति वाच्यम् सर्पद्वारा नद्या अति तद्वद्वत्त्वे बाधकाभावात् । भोगवतितरा, भोगवत्तरा, भोगवतीतरेति - अत्र भोगवच्छन्दो न नामापि तु भोगाः सुखादयः सन्त्यस्या इति विग्रहवशाद्विशेषणभूतः परतः स्त्रीलिङ्गः पूर्वत्र तु नित्यस्त्रीलिङ्गो नदीविशेषस्य नामत्वात् ॥ ६५॥
नवैकस्वराणाम् ||२।६६।