________________
( १८७ )
पचन्तीमता। श्रेयसिमता । श्रेयोमता । श्रेयसी-मता। पचन्तिहता। पचद्धता। पचन्तीहता। श्रेयसिहता। श्रेयोहता। श्रेयसीहता ॥६३॥ पचन्तितरेति-इयमनयोरतिशयेन पचन्तीति विग्रहः । पचन्तिरूपेत्यादिप्रशस्ता पचन्तीति 'त्यादेश्च प्रशस्ते रूपप्' ।।३।१५॥ इति रूपप् । ईषदसमाप्ता पचन्तीति 'अतमबादेरीषदसमाप्ते.' ७।३।१५। इति कल्पप् । पचन्तिवेत्यादि-ब्रवीतीत्यर्थेऽचि प्रकृतसूत्रे निपातनात् गुणाभावे उवादेशः स्त्रियामाप् पचन्ती चासौ ब्रुवा च । पचन्ती चासौ चेली च । चेलडिति टिद्वचनं ङयर्थम् गवोपपदात् त्रायतेः 'आतोडोऽह्वा-वामः' ।५।१।७६। इति डे गोत्रशब्दो व्युत्पाद्यते, परमसौ निन्दायामेव प्रयुज्यते । पचन्ती चासो गोत्रा च, पचन्ती चासौ मता च, पचन्ती चासो हता च । ब्रवादयः कुत्सनवचनाः तेन 'निन्द्य कुत्सनैरपापाद्यैः' ।३।१।१००। इति समासः । इदमनयोरतिशयेन प्रशस्येति श्रेयसी, सैवेति स्वार्थवाऽत्र तरः क्वचित्स्वार्थे' ।७।३।७। इत्यनुशासनात् ।।६३।।
यः ।३।२।६४।
हुयन्तायाः परतः स्त्रियास्तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु एकार्थे ह्रस्वः स्यात् । गौरितरा। गौरितमा । नर्तकिरूपा । कुमारिकल्पा । ब्राह्मणिब्रुवा। गागिचेली। ब्राह्मणिगोत्रा । गागिमता । गौरिहता ॥६४॥ 'चानुकृष्टं नानुवर्तते' इति न्यायात् पूर्वसूत्रे चानुकृष्टं पुवदिति नानुवर्तते गौरितरेति-इयमनयोरतिशयेन गौरी-गौरवर्णा । इयमासातिशयेन गौरी-गौरवर्णा गौरितमा । प्रशस्ता नर्तकी- नर्तकीरूपा । ईषदसमाप्ता कुमारी कुमारीकल्पा । गार्गी चासो मता-गार्गीमता । ननु प्रकृतसूत्र-विषये पिदादिनिमित्तः पुवावः