Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 548
________________ ( २०५ ) 'अजातेः शीले' ।५।१।१५४॥ इति 'साधौ' ।५।१।१५५॥ इति 'बताभीक्ष्ण्ये' 1५।१।१५७। इति वा णिन् । पादौ विध्यन्ति पद्या:-शर्कराः, मार्गकङ्कणानि अत्र विध्यत्यनन्येन' ।७।१।८। इत्यनेन यः स्त्रीत्वादाप् ॥१६॥ ऋचः शसि ।।।। ऋचां पादस्य शादौ शम्प्रत्यये पद् स्यात् । पच्छो गायत्री शंसति, ऋचइति किम् ? पादशः श्लोकं वक्ति। दिवःशपाठात् स्यादिशसि न स्यात् ? ऋचः पादान पश्य ॥६॥ अर्थवान् नियताक्षरपादो वेदभागः ऋक् । पादं पादं गायत्र्याः शंसतिपच्छो गायत्रीं शंसति 'संख्यैकार्थाद्' ।७।२।१५१॥ इति शस्, पूर्वसूत्रगृहीत पादशब्दाविन्नस्य पादशब्दस्य ग्रहणार्थमेव पृथक्सूत्रमारब्धम् । वाक्यगम्यस्य गायत्र्याः पादसंबन्धस्य वृत्ती निवृत्तत्वातू स्वाभाविक शंसनक्रियापेक्षं कर्मत्वं भवति.। अयं भाव:-वाक्ये गायत्र्याः पादेन सह सम्बन्धो गम्यते स च वृत्तो सत्यां वृत्तावन्तभूत: पादस्य पृथगनुपस्थितेः अन्वयितावच्छेदकरूपं हि पृथगुपस्थितिमत्वम्, तच्च निवृत्तमिति सम्बन्धार्थो निवृत्तः, सम्प्रति च शंसतीति क्रियायाः किमपि कर्मापेक्ष्येते, तच्चोपस्थितत्वाद् गायत्र्येव तस्या एवावयवरूपेण शंसनादिति तस्यामेव कर्मत्वं प्रयुज्यत इति शेषत्वाभावान्न तस्याः षष्ठयन्तत्वम् । पादशः श्लोक क्क्तीति-पादं पादं श्लोकस्य व्याचष्ट इत्यर्थः । शसो द्विशकारपाठाद् विभक्तिशसि द्वितीयाबहुवचने न भवति-ऋचः पादान् पश्य द्विशकारपाठेन हि विद्यमानशकारवत्त्वं प्रतीयते, शसः शकारश्चन विद्यमानोऽपितु अप्रयोगितयेत्संज्ञक इति नान पदादेशः । पदादेशे तु 'पद' इति रूपं स्यान्न तु पादानिति ।।६७।। शब्दनिष्कघोषमिश्रे वा । । शब्दादावुत्तरपदे पावस्य पद् वा स्यात् । पच्छब्दः । पादशब्दः ।

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576