Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 536
________________ ( १९३ ) शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद्विवृत्तेर्वदन्ति, सान्निध्यतः सिद्धपदस्य वृद्धाः ।। अस्यार्थस्तु-व्याकरणम् =शब्दव्युत्पादकशास्त्रम् । उपमान-सादृश्यज्ञानास्मकप्रमाणम्, कोशः अभिधानचिन्तामण्यादिः, आप्तवाक्यं प्रयोगहेतुभूतयथार्थज्ञानवत्पुरुषोच्चरितवाक्यम् । यथा-'कोकिल: पिकपदवाच्यः' इत्याप्तवाक्येन 'पिक' पदस्यार्थमाजानानस्य बालस्य 'पिक' पदस्य कोकिलात्मकेऽ र्थे शक्तिग्रहो भवति । व्यवहार:-'घटमानये' त्यादिशब्दप्रयोगात्मकस्तेनापि गोपदार्थमजानानस्य बालस्य शक्तिग्रहो भवति । यथा प्रयोजकवद्ध ने उपदेष्ट्रवद्धन . गूर्वादिना 'घटमानय' इति प्रयोज्यवृद्धाय इत्युक्तम्, तद्वाक्यं श्रुत्वा समीपस्थ: घटादिपदानां घटाद्यर्थेऽ गृहीतशक्तिको बाल: प्रयोजकवद्धोच्चरितवाक्यं श्रुत्वा प्रयोज्यवृद्धस्य गमनं घटानयनं च दृष्ट्वा घटानयनक्रिया ‘घटमानय' इतिपदज्ञानजन्यशाब्दबोधजन्येत्यनुमिनोमि। वाक्यस्य शेष:-प्रकृतवाक्यातिरिक्त वाक्ये प्रकृतवाक्यार्थबोधोपयोगी पदकदम्बोऽर्थवादाद्यात्मक:, विवृत्तिः-विवरणम्-पर्यायादिकम्, सिद्धपदस्य सान्निध्यम्-प्रसिद्धपदस्यसन्निधिः एतान्यष्टौ शक्तिज्ञानस्य प्रयोजकानि भवन्तीति वृद्धाः मन्यन्ते ।।७४।। नाम्नि ।३।७५॥ अष्टन उत्तरपदे संज्ञायां दीर्घः स्यात् । अष्टापदः कैलाशः । नाग्नीति किम् । अष्टदंष्ट्रः ॥७॥ 'अष्टौ पदानि स्थानानि यत्र सोऽष्टापद: कैलासः । कैलासपर्वतस्य संज्ञा । अष्टो दंष्ट्रा यस्य सोऽष्टदंष्ट्रः ।।७५।। कोटरमिश्रकसिधकपुरगसारिकस्य वणे ।३।२।७६। एषां कृतणत्वे वने उत्तरपदे संज्ञायां दीर्घः स्यात् । कोटरावणम् । मिश्रकावणम् । सिध्रकावणम् । पुरगावणम् । सारिकावणम् ॥७६॥ ..

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576