Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 539
________________ ( १९६ ) पूर्वसूत्रेण सहैकयोगाकरणाद् नाम्नीति निवृत्तम् । विश्वं वसु अस्य-विश्वावसुः । विश्वशब्द: इह सर्वविधार्थः, सर्वप्रकारं वस्वस्येत्यर्थः । गावो भूमिहिरण्यमिति वसुनस्त्रयः प्रकाराः तत्र गोपदं सर्वविधपशुपरम्, हिरण्यपदं सर्वविधाकुप्यधनपरम्, भूमिपदं च भूमि-तत्संभवसर्वविधान्नादिपरम्, तथा च यस्यैतत्त्रितयान्तर्गन्तं सर्व प्रकारं वसु भवेत् स एव विश्वावसुःन तु सकलजगद्धनस्वामी, तादृशस्य कस्यचनाभावात् । विश्वस्मिन् राजते सर्वत्र दीप्यते स विश्वाराट्। 'यजसज०।२।१।८१।इति षत्वम,षस्य डः । राडिति विकृतनिर्देशादिह न भवति-विश्वराजौ, विश्वराजः ।।१।। वलच्यपित्रादेः ।३।२।१२। वलचप्रत्यये पित्रादिवर्जानां दीर्घः स्यात् । आसुतीवलः । अपिश्रादेरिति किम् । पितृवलः । मातृवलः ॥८२॥ , आसुतिः सुरा साऽस्यास्तीति आसुतीवलः । कृष्यादित्वात् 'कृष्यादिभ्यो बलच' । इति वलच् । नन्वत्र 'वलचि' इति कथं 'वले' इति कथनेनापीष्टसिद्धिर्भविष्यतीति चेत्सत्यम्-वलजित्यत्र चकारः प्रत्ययत्वज्ञापनाय, तेन कायबलमित्यादौ वलशब्दे परे दीर्घो न भवति । न च 'बले' इत्युपादानेऽपि 'प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्' इति न्यायात्प्रत्ययस्यैव ग्रहणं भविष्यतीति चकारः पुनव्यं र्थ इति वाच्यम् यत्र प्रत्यययाप्रत्यययोरु-भयोः सामान्येन ग्रहणप्राप्तं तत्रैन्न्यायप्रवृत्तिरिह तु उत्तरपदे'इत्यनुवृत्तमित्युत्तरपद भूतम् एवं वलशब्दे परे इत्यर्थो गम्येत,इति यत्रोतरपदभूतो वलशब्दस्तत्रैव दीर्घःस्यात् 'आसुतीबल' इत्यादौ तु न स्यात् । नन्वन केचित् 'कागबलम्' इत्यादी बलशब्दः न तु वलशब्दः इति भवद्दत्ताऽऽपत्तिरसङ्गतेति 'वलेऽपित्रादेः' इति सूत्रेणाऽपि नापत्तिरिति चेदत्र केचिद् यद्यपि वलधातोरचि वलत इति वलः' इति साधयितु शक्यते संभवति च तस्य क्लीबताऽपि तथापि तादशप्रयोगस्याप्रसिद्धत्वेन न कायबलमित्यादी संभव इति स्पष्टार्थमेव चकारोपादानमित्याहुः । वस्तुतस्तु अच्प्रत्ययान्तो कलशब्द: स्व. यमाचार्येण धातुपारायणे साधित इति तदप्रसिद्धिरिति कथनं नोचित

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576