Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 540
________________ ( १९७ ) मिति चकारोपादानमावश्यकम् । किञ्च बवयोरैक्यमिति बलशब्दोऽपि वलशन्दो भवतीति ध्येयम् ।।२।। चितेः कचि ।३।।३। चितेः कचि दीर्घ स्यात् । एकचितीकः ॥३॥ चितिशब्दोऽनेकार्थः चिनोतेः क्तिप्रत्यये साधुः, समूहे च वर्तते, इष्टकादिसमूहविषये च निरुढ-लक्षणया वर्तते । एका चितिरस्मिन एकचितीकः । इति विग्रहवाक्ये चितिशब्दस्तत्तत्समूहविशेषवाचक एव विज्ञायते 'शेषाद्वा' ।७।३।१२५॥ इति सूत्रेण कच् ।।३।। स्वामिचिह नस्याऽविष्टाऽष्टपञ्चभिन्नछिन्नच्छिद्रसवस्वस्तिकस्य कर्णे ।३।२।४। स्वामी चिह्नयते येन तद्वाचिनोविष्ठादिवर्जस्य कर्णे उत्तरपदे दीर्घ स्यात् । दानाकर्णः पशुः । स्वामिचिह्नस्येति किम् ? लम्बकर्णः। विष्टादिवर्जनं किम् ? विष्टकर्णः । अष्टकर्णः ॥४॥ स्वामी चिह्नयते परिचीयते येन चिह्न लक्षणम् स्वामिनश्चिह्नमिति षष्ठी तत्पुरुषः तथा च स्वामिपरिचायकस्य पूर्वपदस्येति फलति । दात्रमिव . दात्रम्, दात्रं चिह नं कर्णे यस्य स दात्रमिव वा कणौ यस्य स दानाकर्णः पशुः । दात्र लोहादिनिमित्त काष्ठादिद्विधाकरणसाधनम् तन्न पश्वादीनां कर्णे स्वामिविशेषपरिचायकत्वेन तिष्ठत्यपि तु तदाकारेण रोमदाहादिचिहमेव तथा च न तद्दात्रमपि तु तदाकारकत्वात् तत्सदृशम् । लक्षणया तेन शब्देन व्यवहारः । दानमिव कणौं यस्येति विग्रहान्तरसम्भावनाप्रदर्शन मात्रम् न तु स्वामिचिह्नत्वसाधकम् न हि प्राकृतिकेन दावाद्याकारेण चिह्नन स्वामिविशेषः प्रतीयते कृते तु संकेत कश्चिदित्थंभत: पशुः स्वामिविशेषसम्बन्धितया परिचीयते, अपि तु न तत्साधारण्येन चिह्नतयां व्य

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576