Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 541
________________ ( १९८ ) वहतुं शक्यते। लम्बकर्ण इति-लम्बौ कणो यस्येति विग्रहः, कर्णानां लम्बत्वं स्वामिनः परिचायकं नास्ति किन्तु चिह्नरूपमेव । तथा चात्र केवलस्य चिह्न-वाचिनः कर्णशब्दे उत्तरपदे दो! न भवति, किन्तु स्वामिचिह्नवाचिनः । यदि केवलं स्वामिशब्दोपादानं स्यात्तहि वाहनस्य कर्णः वाहनकर्ण इत्यत्र कर्णनिरूपितं स्वामित्वं वाहनेऽसित इत्यतिव्याप्तिः स्यात् । विष्टादिवर्जस्येति-'विष्टादिपर्युदासो व्यर्थः स्याच्च । 'विष्ल कोव्याप्तौ' विष्टं व्याप्तं (चिह्न) कर्णे यस्य स विष्टकर्णः । अशौटि त्याप्तौ अष्टं व्याप्तं (चिह्नकर्णे यस्य स-अष्टकर्णः । विष्टशब्दो व्याप्त्यर्थकाद्विषः, अष्टशब्दोऽपि व्याप्त्यार्थकादश्नोतेः वते सिद्धः। पञ्चशब्दसाहचर्याद् संख्यावाचकस्याऽप्यष्टशब्दस्य ग्रहणं तत्पक्षे अष्टौ (चिह्नानि) कर्णे यस्येत्यादिविग्रहः । एवं पञ्च(चिह्नानि) कर्णे यस्य स पञ्चकर्णः,भिदेश्छिदेश्च क्त भिन्न-छिन्न शब्दौ, तावपि स्वामिविशेषपरिचायकचिह्नवाचिनौ, स्वामिविशेषपरिज्ञानाय भेद-छेदो विशेषरीत्या क्रियेते, भिन्नं (चिह्न) कर्णे यस्येति, भिन्नौ च्छिन्नौ वा कणौ यस्येति. वां विग्रहे भिन्नकर्णः, छिन्नकर्णः । छिद्रं कर्णे यस्य स छिद्रकर्ण :। स्रव :(स्र वाकार चिह नं) कर्णे यस्य स स यकर्णः । स्वस्तिक:-मङ्गलसूचकचिह्नविशेषः, स कर्णे यस्य स स्वसितककर्णः ॥४॥ गतिकारकस्य नहितिवृषिव्यधिरुचिसहितनौको ।३।२।२५॥ गतिकारकयोर्नह्यादौ बिन्ते उत्तरपदे दीर्घः स्यात् । उपानत् । नीवृत् । प्रावृट् । श्वावित् । नोरुक् । ऋनीषट् । जनासट् परीतत् ॥५॥ उपनह्यति पादम् उपानत् । उपनातीति कर्तरि विग्रहः नहेर्दिवादित्वात् । उपनाते परिधीयते पादयोः बध्यते वा इति कर्मणि विग्रहः, उभयथापि वाच्यस्य पादत्राणस्य प्रतोतिः । 'नहाहोर्धतो' ।२।१।८५। इति सूत्रेण हकारस्य धकारः । नियतं वर्तन्तेऽस्यां नोवत् देशः इत्यर्थः । प्रवर्षन्त्यस्यां मेधाः प्रावृट्। यः श्वानं विध्यतीति-श्वावित् पशुविशेषः शुनः।३।३।६३।इति दीर्घः,

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576