Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 543
________________ ( २०० ) वीकाशः । नामिनइति किम् ? प्रकाशः ॥७॥ नाम्यन्तस्योपसर्गस्येति-'अनवर्णा नामी ।१।१६। इति सूत्रेण अवर्णवर्जानामौदन्तानां स्वराणां नामिसंज्ञा विहिता तथाप्यत्र 'ए ऐ ओ औ वर्णानां स्वत एव दीर्घत्वेन दीर्घविधानानर्थक्यात् लु कारान्तामेवेहोद्देश्यत्वं, तत्रापि ऋकारान्त-लकारान्तयोरुपसर्गस्या-श्रुतत्वात् परिशेषादिकाराकारयोरेव ग्रहणम् । इकारोकारान्तस्योपसर्गस्येति पर्यवस्यति । निकाशते निकाश्यते इति वा नीकाशः । विकाश्यत इति वीकाशः । बहुलाधिकारात् विकाश इत्यपि । प्रकाशत इति प्रकाशः । 'काशे' इति सामान्यनिर्देशेऽपि घान्ते पूर्वसूत्रण विधानात् अजन्त एवायं विधिरित्याहअजन्त इति-'अच' ।५।१।५४। इति सूत्रणाच ॥७॥ दस्ति ।३।२।८८॥ दो यस्तादिरादेशस्तस्मिन्परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् । वोत्तम् । दइति किम् । वितीर्णम् । तीति किम् । सुदत्तम् यीतम् । निदीयते स्म, विदीयते स्म-नित्तम्, वित्तम् । नि-विपूर्वाद् दासंज्ञकात् क्तः' 'अवौ दाधौ दा' ।३।३।५। इति सूत्रेण दासंज्ञा । 'स्वरादुपसर्गादस्ति कित्यधः ।४।४।।। इति 'दा' इत्यस्य 'त्त' इत्यादेशः । सुदीयते स्मेत्यर्थे ते 'निविस्वन्वात्, ।४।४।८। इत्यनेन विकल्पाद् दत्' ।४।४।१०। इति सूत्रेण ददादेशः ।।८८॥ अपील्वादेवहे ।३।२।८। पोल्वादिवर्जस्य नाम्यन्तस्य वहे उत्तरपदे दीर्घः स्यात् । ऋषीवहम् । मुनीवहम् । अपील्वादेरिति किम् । पोलुवहम् । दारुवहम् ॥६॥ ऋषीणां वहम् ऋषीवहम् । ऋषीणां धारकमित्यर्थः । मुनीनां वहम् मुनी..

Loading...

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576